१०

हेतुः


३।१ कान्तिक एव प्राणादिः । साधारणमपि खलु प्रमेयत्वमसंस्कृताप- b
वादिनः । असमन्वययोगात् । अव्यभिचारितान्वयः स पक्ष एवास्तीति ।


अन्वयिनमेव हेतुमाह । अत्रापि कथमव्यतिरेको विपक्षात् । कथम्वा सपक्ष
एवास्तीति । किं (सप) क्षस्यावधारणस्य फलं यदि न विपक्षेऽस्तित्वं व्यवच्छिद्यते
व्यवच्छेदे वा कथमव्यतिरेकः । न हि सत्ता प्रतिषेधादन्यो व्यतिरेकः । विप्रतिषिद्धं
चैतत् । नान्वयो न व्यतिरेक इति । य एव खलु नेत्यन्वयप्रतिषेधः स एव
व्यतिरेक इति । तत्पुनरिदमायातमसतोव्यतिरेकायोगादिति । अत्रेदमेव पुनर्वाच्यं
कथमसतोऽन्वयप्रतिषेध इति वस्तुरूपानुकर्षी खल्वसति प्रतिषेधो न सम्भवेत् । न हि
528 पर्युदास एवैको नञो विषयः । किन्तर्हि प्रत्यक्षप्रतिषेधोपि । न हि तस्यासति
विरोधः । सो पि न सम्भवति । अधिकरणाद्यर्थानां प्रतिषेधविषयोपदर्शिनीनां
विभक्‍तीनामयोगादिति चेत् । उक्‍तोत्तरमेतत् । तस्मान्‍न हेतुः कश्‍चिदन्वयी
नाम । न च प्रमेयत्वस्य विपक्षेऽन्वयात्मा सः । त्रिविधो हि धर्मो भावाभावोभयाश्रय
इत्युक्‍तः । नाभावस्य कश्‍चिद्धर्म इति चेत् । नन्वयमेवास्य धर्मविरहो धर्मः ।
न हि वस्तुरूपमेव धर्मा असन्तोपि हि केनचित्प्रकरणेन इमं व्यवहारमुपनीयन्ते ।
अन्यथा हि तत्राव्यवहार एव स्यात् । न च सतामपि परमार्थतः कश्‍चिद्धर्मधर्मिभावः ।
केवलं बुद्धिरेव सम्बन्धमुपरचयतीत्युक्‍तं वा र्ति के । बुद्धिकृता च घटनाऽसत्सु केन
वार्यते । सदसदुभयानुभयव्यवस्थाश्‍च तदतत्समयवतामनिश्‍चितसाधना नैकान्त
ग्राहिण्यः स्युस्तस्माद्यथा कथञ्‍चिदप्यनेना (सत्ता) निश्‍चिताः । प्रमेयास्ते
वक्‍तव्याः । न हि भावविषयमेव प्रमाणं । अविसंवादलक्षणत्वात्‍प्रमाणस्य । उल्लसती
तद्वारे न व्यवस्थापयेत् । न चेत्स्वविषये परेण वाध्येत । तदन्यप्रमाणलक्षणम
स्तीति प्रमेयो..........।