११
a अभिप्रायाविसंवादा २।५६दि । मणिप्रदीपप्रभयोरि २।५७
त्यादि वा र्ति क श्लो क द्वयवृत्तौ वक्ष्यते ।
केचिदाहुः । यदि मणिप्रभायां मणिज्ञानं भ्रान्तमपि सम्वादादनुमानमिष्यते ।
प्रमाणमविसम्वादिवचनात् तदा प्रत्यक्षानुमानव्यतिरिक्तं तृतीयमिदं प्रमाण
मापतितं । तथा हि मणिप्रभायां मणिबुद्धेर्न प्रत्यक्षं भ्रान्तत्वात्सविकल्पकत्वाच्च ।
प्रत्यक्षत्वं त्वेतद्विपरीतं । नाप्यनुमानमलिङ्गजत्वात् । न चाप्रमाणं वस्तुसम्वादात् ।
अत्रोच्यते । अनुमानमेवैतत् । तथा हि सामान्यमनुमानस्य लक्षण
मनन्तरं स्थापयिष्यते । परोक्षस्याप्यन्यतः सम्बन्धाप्रतिपत्तिरनुमानमिति ।
इह च मणौ मणिप्रभासम्बन्धात्तत्कार्यत्वात् तस्याश्च प्रभायं मणिभ्रान्तिरुत्पद्यते
। ततः कार्यलिङ्गजत्वादनुमानमेव । तथाहि । मणिप्रभायामादावभ्रान्त
मेव चक्षुर्विज्ञानमुपजायते । तेन च कार्यलिङ्गस्वरूपमधिगतं यतः स्वलक्षण
मेव लिङ्गं । तादात्म्यतदुत्पत्तिभ्यां च गमकत्वं स्थितं । न च कल्पितरूपस्या
न्यत्वं । तादात्म्यतदुत्पत्ती वा स्तः ।
कथं स्वलक्षणेनान्वय इति चेत् । न ब्रूमस्तेनैवेति किन्तु तज्जातीयेन स्वल
क्षणान्तरेण । तथा चोक्तं । तज्जातीयोपि हि नामाभेदविवक्षायां स एवेति ।
तस्मात् समानजातीयस्वलक्षणान्येव विजातीयव्यावृत्युपाधिकानि साकल्येना
पेक्षितानि सामान्यमित्युच्यन्ते । यत्रापि कृतकत्वादयो व्यवस्थाप्यन्ते तत्रापि मूढ
529
प्रतिपादनोपायविधानार्थो धर्मधर्मिविभागः । गमकन्नु लिङ्ंग स्वलक्षणमेव ।
तथा चाह । धर्मधर्मितया भेदः कल्पितो नार्थोपीति । धूमाल्लिङ्गाल्लिङ्गि- b
नि ज्ञानमुत्पद्यमानं न धूम एवाध्यारोपेण प्रवर्त्तते किन्त्वन्यत्र प्रदेशे । मणि
भ्रान्तिस्तु मणिप्रभाख्य एव लिङ्गे लिङ्गिनमारोपयन्तीति चेत् । ततः किं न (:)
हीयतां । सम्बन्धादुत्पन्नत्वं हीयते देशभ्रान्तिरत्राधिकेत्येतावत्तु ब्रूमः । तत्रैव
देशे मणिप्राणकत्वे माभूत्प्रामाण्यं मणिमात्रप्रापणे तु केनानुमानत्वं वार्यते ।
सर्वञ्चानुमानं भ्रान्तमिष्यत एव । मणिभ्रान्तावन्वयव्यतिरेकस्मरणन्नास्तीति
चेत् । यदि नास्ति न तावतानुमानत्वाभावः यो ह्यन्वयव्यतिरेकावस्मृत्वा द्रागेव
धूमाद्वह्निं प्रत्येति तदा किं तज्ज्ञानमनुमानं नेष्यते । त्रिरूपात्तु लिङ्गात्तदुत्पद्यत
इत्येतावतानुमानमिति ब्रुमः । यद्यनुमानमेव मणिप्रभायां मणिभ्रान्तिः किमर्थं
तर्हि सा दृष्टान्तीक्रियते । न ह्यनुमानस्य सामान्येनाविसम्वादे साध्येऽनुमान
स्यैव दृष्टान्तत्वं युक्तं । अयमप्यदोषो यतो मणिभ्रान्ते भ्रान्तत्वेपि परो वक्तृविस
म्वादमात्रमिच्छति । अन्यस्य तु धूमादिलिङ्गस्याभ्रान्तत्वं वस्तुप्रतिभासित्वं चान्यथा
ह्यविसम्वादित्वं न स्यादित्यतो मणिभ्रान्तिर्दृष्टान्तत्वेनोपादीयते इति ।
तदेतद्वहुतरञ्च दुःखञ्च दुरुपपादञ्च विसम्वादकञ्चासम्बद्धञ्चचेति न विदुषां
प्रीतिकरमिति वयमत्र ब्रूमः ॥ ॥ ॥ ॥
मणिप्रभायां मणिज्ञानं न प्रमाणं सत्यार्थाजनितत्वान्न प्रत्यक्षं । नाप्यनुमानं 8a
तल्लक्षणाभावात् । यो हि यल्लक्षणहीनः स तेन रूपेण व्यवह्रियते यथा गौर्वाजिरू
पेणेत्यतिप्रसिद्धमेतत् । त्रिरूपाल्लिङ्गान्निश्चितादनुमेये ज्ञानमनुमानं । तदत्र
नान्वयो । न हि या या प्रभा सा सर्वा मणिरित्यन्वयः सिद्ध्यति । नापि व्यति
रेको ।यो मणिर्न भवति स प्रभापि न भवतीति । व्याप्यव्यापकभावासिद्धेः ।
नापि पक्षत्वं मण्याकारज्ञानस्य प्रभाजनितस्य मिथ्यात्वात् । न चागृहीत
सम्बन्धो लिङ्गादनुमेयं प्रत्येति । योप्यविधानेन द्रागेव प्रत्येति स पूर्वमेव गृहीत
सम्बन्धोऽनुमेयं लिङ्गात्प्रतिपद्यतेऽन्यथा प्रतिपत्तेरयोगात् । नापि धूमवद्वह्नेः
कार्यत्वेन मणेः प्रभा प्रतिभासते कारणरूपेणैव तस्याः प्रतिभासनाज्ज्ञापकत्वाच्च
। निश्चितं लिङ्गं भवति नानिश्चितं सन्दिग्धधूमवत् । न चात्र निश्चयोस्ति
मिथ्याज्ञानत्वात् ।
यत्तूक्तं । प्रभायामभ्रान्तमेव चक्षुर्विज्ञानमादौ जायते तेन कार्यत्वं प्रभाया
निश्चीयत इति । तदेतदतिसाहसमिन्द्रियज्ञानमेवेदं स्पष्टत्वात् विरक्तज्ञानवत्
भ्रान्तमिन्द्रियादिदोषात् प्रभां मणिरूपेणाविच्छिन्ददुत्पद्यते । न च तत्र प्रभाकारो
वेद्यते । न चासम्वेद्यमानाकारमालम्वनं सर्वेषामालम्वनत्वप्रसंगात् । न चेयं
530
मानसी भ्रान्तिरिन्द्रियदोषनिवृत्तौ पुनः स्वरूपेणैव विषयग्रहणात् । न च तादात्म्य
प्रतिबन्धो मणिप्रभयोर्भेदात् विषयो चाधिगते ज्ञानस्य प्रमाणाप्रमाणत्वञ्चेति ।
8b तेन हि निर्विषया कस्यचित्प्रवृत्तिरस्त्यत्र च मणिज्ञानं प्रभाविषयं
न च प्रभा मणिर्येन यथाध्यवसायं प्रवर्त्तमानः स कृती स्यात् । अनुमानन्तु लिङ्गरू
पतां न व्यभिचरति । अनर्थजन्यतया च तन्मिथ्याज्ञानं भ्रान्तन्तु सामान्याकारेणा
विजातीयव्यावृत्तरूपता हि वस्तुनः स्थितैवान्यथा विजातीयतद्रूपमपि तद्वस्तु
स्यादिति तदाकारो वस्तुसन्धायी । प्रभायान्तु न मणिरूपता विजातीयव्यावृत्त
रूपास्ति प्रभामात्रालम्बनत्वात् । अनुमानस्य त्वनुमेयाकारत्वेन वस्तुसंस्पर्शात्
। सति प्रतिबन्धे प्रामाण्यं प्रभायान्तु मणिज्ञानं नैवमिति नेदमनुमानम् ।
अत एव वादिप्रतिवादिप्रसिद्धपक्षाद्वहिःस्थितमिति दृष्टान्तीकृतं प्रतिबन्ध
स्यात्यन्तमाहात्म्यप्रदर्शनार्थं यदेवं प्रकारमविसम्वादकं परमार्थेन त्वप्रमाणमेवेद
मित्यन्तं मिथ्याज्ञानत्वादत एव शास्त्रकारो वक्ति ।
मिथ्याज्ञानाविशेषेपि विशेषोऽर्थक्रियां प्रतीति ।
एतदेव व्याचष्टे । अत्र हि मिथ्याज्ञानात्प्रदीपप्रभायां मणिरूपेण ग्रहणान्नेदं
विशिष्यते किन्तु मिथ्याज्ञानमेवेदं कपा.......पुटकुञ्चिकाविवरदृश्यमानायां
प्रदीपप्रभायां मणिज्ञानवत्।मिथ्याज्ञानत्वमनूद्य व्यतिरेकमाह। विशेषोऽर्थ
क्रियां प्रतीति । अपिशब्दस्त्वत्रातिशये । तदेवं शास्त्रकारवचनं न्यायञ्चोल्लंध्य
यत्प्रामाण्यप्रतिपादनं तदत्र कपटप्रकटनमित्यसारविचाराद्विरम्यते ॥