215 इदानीं यो गा चा रो वेद्यवेदकभावमपश्यन् सौ त्रा न्ति कं पृ964 च्छति ।
काऽर्थस्य संवित् ज्ञानमुच्यते ।
अत आह (।)
यदेवेदं प्रत्यक्षमनुभवसिद्धं प्रतिवेदनं नीलाद्याकारेण प्रतिनियतं वेदनं प्रति
सन्ताननियतं वा सैवार्थसंविदुच्यते ।
ननु तत् प्रतिनियतं वेदनमनुभूयमानमर्थंस्य वेदनं केन हेतुनोच्यते स्वप्रका
शात्मकत्वात् स्व
वेदनमेव तद्युक्तं नार्थवेदनं । तस्य सर्व्वदा परोक्षत्वात् । ताद्रू
प्यादर्थसरूपत्वात् ज्ञानमर्थवेदनमिति चेत् । तदर्थसारूप्यंव्यभि965 चारि, द्विचन्द्र
केशोण्डूकज्ञानाद्याकारस्यार्थमन्तरेणापि भावात् । (३२०)
अथानुभाव्याभावे सोऽनुभवः प्रत्यात्मवेद्योऽस्य ज्ञानस्य न कर्म्मणि व्यवस्थाप
नीयः । न हि कर्मरहिता क्रिया क्वचिदस्ति ।
अत्राह (।)
यदुच्यते व्यवहर्तृ भिरिदमनेनानुभूयते इति तदेवेदमस्माभिर्व्विचार्यते । ज्ञानं
स्वप्र
काशमुपलभ्यते प्रकाशश्चोच्यत इत्ययुक्तं ।
-
अन्तर्ब्बहिस्तीर्थ्या दूषिता(ः।) प्रमाद्वयं प्रमेयद्वैविध्यादुक्तं प्रत्यक्षलक्षणञ्च ।
↩
सौत्रान्तिकप्रमाणं सारूप्यं बाह्योर्थः प्रमेयोधिगतिः फलं व्यवस्थाप्याधुना विज्ञप्तौ
प्रमाणफलव्यवस्थां निर्दिदिक्षुः स्वसम्वित्तिः फलञ्चात्र तद्रूपो ह्यर्थनिश्चय इति
सम्वित्तिं व्याख्यातुमाह सौत्रान्तिकं । -
अतिव्याप्त्या ।
↩