१---हेतुचिन्ता

(१) हेतुलक्षणम्

तल्लिङ्गे विप्रतिपत्तयः सन्तीति तासां निराकरणेन तद्व्यवस्थापनार्थमाह ।

पक्ष1275धर्मस्तदंशेन व्याप्तो हेतुः ;

पक्षो धर्मिधर्मसमुदायोनुमेयः । तदेकदेशत्वा
दुपचारेण1276 धर्मी पक्ष उक्तः ।
तस्य धर्मः (।) अनेन पक्षधर्मत्वमुक्तं । धर्मिधर्मो हेतुरित्यनुमाने सर्व्वस्य धर्म्मि
धर्म्मो हेतुः स्यादित्युपचाराश्रयणं । तथा चाक्षु1277षत्वादिः शब्दे धर्मिणि न हेतुः ।
तदंशेन पक्षस्य धर्मेण1278 सिसाधयिषितेन व्याप्तो हेतुर्बोद्धव्यः । द्विविधा चेयं
व्याप्तिर्व्यापकव्याप्यधर्मतया । तत्र व्याप्ये सति व्यापकस्यावश्यम्भाव1279स्तस्य
व्याप्तिः । व्याप्यस्य च व्याप
क एव1280 सति भावो नाम तस्य व्याप्तिः । आभ्यां
283 यथाक्रममन्वयव्यतिरेकावुक्तौ । व्याप्यसद्‏भावे व्यापकस्य सत्वनियमस्यान्वयरूप
त्वात् । व्यापकाभावे व्याप्याभावस्य च व्यतिरेकरूपत्वात् (।)

(२) हेतुस्त्रिधा
एतेन त्रिरूपत्वं हेतोर्लक्षणमुक्तं ॥

त्रिधैव सः ।

त्रिधैव त्रिप्रकार एव कार्यस्वभावानुपलम्भभेदेन 1281 हेतुः । यथाग्निरत्र धमात् । वृक्षव्यवहारयोग्योयं शिंशपात्वात् ।
नेह प्रदेशे घट उपलब्धिलक्षण
प्राप्तस्यानुपलब्धेरिति संख्यानियम उक्तः ।

कस्मात् पुनस्त्रिविध एव हेतुरित्याह ।

अविनाभावनियमात्;

अविनाभावस्य साध्याव्यभिचारित्वस्य त्रिविध एव हेतौ नियमात् निय
तत्वात् । संयोग्यादिषु चाभावात् सत्येवाविनाभावे हेतुत्वं स च व्याप्त्या कथितः ।
अनेन संख्यानियमकारणमुक्तं ।

(३) हेत्वाभासाः

हेतव उक्ताः । के पुनर्हेत्वाभासा इत्याह (।)

हेत्वाभासास्ततोऽपरे ॥ १ ॥ 56a

हेतुवदा
भासन्त इति हेत्वाभासा हेतुप्रतिरूपकाः (।) ततस्त्रिविधाद्धेतो
रपरेऽन्ये संयोग्यादयः । अविनाभावे सति हेतुत्वं स च तादात्म्यात् तदुत्पत्तेश्च ।
ये तु तद्विकलास्तेऽविनाभावविरहात् हेत्वाभासा इत्यर्थः (। १)

  1. श्लोकेत्र लिङ्गलक्षणं संख्या(त्रिधैव)नियमः (अविनाभावनियमात्) संख्यानियमकारणं विपक्षनिवृत्ति(हेत्वाभास)श्चोक्तो

  2. तदंशत्वेन सम्बन्ध उक्तः ।

  3. यथा रूपमिति दृष्टान्तधर्मिधर्म एव हेतुः स्यादन्यथा ।

  4. धर्मिमात्रस्य पक्षत्वाद् धर्मी च वन्ह्यादिः साध्य एव तदंशो विवक्षावशाद् यदा तु समुदायः पक्षस्तदा तदंश एकदेश एव ।

  5. इति व्याप्यधर्म उक्तो व्याप्ये धर्मिणि व्याप्तिर्द्धर्मः ।

  6. व्यापकधर्मोऽत्र व्याप्तिमत्वात् धर्मत्वं व्याप्तेः ।

  7. पक्षधर्मत्त्वेन यथोक्तव्याप्त्या च युक्तः ।