283 यथाक्रममन्वयव्यतिरेकावुक्तौ । व्याप्यसद्‏भावे व्यापकस्य सत्वनियमस्यान्वयरूप
त्वात् । व्यापकाभावे व्याप्याभावस्य च व्यतिरेकरूपत्वात् (।)

(२) हेतुस्त्रिधा
एतेन त्रिरूपत्वं हेतोर्लक्षणमुक्तं ॥

त्रिधैव सः ।

त्रिधैव त्रिप्रकार एव कार्यस्वभावानुपलम्भभेदेन 1281 हेतुः । यथाग्निरत्र धमात् । वृक्षव्यवहारयोग्योयं शिंशपात्वात् ।
नेह प्रदेशे घट उपलब्धिलक्षण
प्राप्तस्यानुपलब्धेरिति संख्यानियम उक्तः ।

कस्मात् पुनस्त्रिविध एव हेतुरित्याह ।

अविनाभावनियमात्;

अविनाभावस्य साध्याव्यभिचारित्वस्य त्रिविध एव हेतौ नियमात् निय
तत्वात् । संयोग्यादिषु चाभावात् सत्येवाविनाभावे हेतुत्वं स च व्याप्त्या कथितः ।
अनेन संख्यानियमकारणमुक्तं ।

(३) हेत्वाभासाः

हेतव उक्ताः । के पुनर्हेत्वाभासा इत्याह (।)

हेत्वाभासास्ततोऽपरे ॥ १ ॥ 56a

हेतुवदा
भासन्त इति हेत्वाभासा हेतुप्रतिरूपकाः (।) ततस्त्रिविधाद्धेतो
रपरेऽन्ये संयोग्यादयः । अविनाभावे सति हेतुत्वं स च तादात्म्यात् तदुत्पत्तेश्च ।
ये तु तद्विकलास्तेऽविनाभावविरहात् हेत्वाभासा इत्यर्थः (। १)

यदि1282 तदुत्पत्त्या गम्यगमकभावस्तदा धूमत्वविशेषवत् सामान्यधर्माः पार्थि
वत्वादयोपि गमकाः स्युः । तथाऽग्नेः सामान्यधर्मवच्चान्दनत्वादयोपि विशेषधर्म्मा

गम्याः स्युः । सर्व्वथा कार्यकारणभावादित्याह ।

कार्यं स्वभावैर्यावद्भिरविनाभावि कार्यवत् ।
  1. पक्षधर्मत्त्वेन यथोक्तव्याप्त्या च युक्तः ।

  2. दिङ्नागोक्तं परं प्रति सर्व्वथा गम्यगमकत्वं कार्यहेतौ शङ्कते ।