अथ तयोः कथञ्चन1713 भेदोप्यस्तीति चेदाह (।)

अन्योन्यं वा तयोर्भेदः सदृशासदृशात्मनोः ।

तयोः सामान्यविशेषयोः सदृशासदृशात्मनोः 1714 साधारणासाधारणस्वरूपयो
रन्योन्यं भेद एव वा भवेत् । न कथञ्चिदेकत्वं ।

एतदेव स्फुटयितुं पूर्व्वपक्षयति (।)

तयोरपि भवेद् भेदो यदि येनात्मना तयोः ॥ १७६ ॥
भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना ।
भेद एव;
350

न सर्व्वात्मनाऽभेद1715 स्तयोः सामान्यविशेषोरपि कथञ्चिद् भेदो
भवेद्
यदि
(।) अन्यथा सामान्यविशेषभावानुपपत्तिः । अत्राह । येनात्मना स्वरूपेण
साधारणेन चासाधारणेन च तयोः सामान्यविशेषयोर्भेदः सामान्यं विशेष इत्येतद् व्यवस्थाप्यते । तेनात्मना साधारणासाधारणेन यदि भेदस्तदा भेद एव तयोः स्यात्
भिन्नलक्षणत्वात् ।

तथा च स्यान्निःसामान्यविशेषता ॥ १७७ ॥
भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् ।

तथा च निःसामान्यविशेषता समान्यविशेषरूपताऽभावः सामान्यवि

शेषयो1716रभितयोः स्यात् । यद्वद् घटादीनां विशेषाणां परस्परं न सामान्य
विशेषता ।1717 विशेषः स्व(लक्षण)रूपमनुगामि सामान्यं तदेवानुगामि विशेष
उच्यते (।) यदि तु तयोर्भेद एव न सामान्यविशेषभावः स्यात् ।1718

यमात्मानं पुरस्कृत्य पुरुषोयं प्रवर्तते ॥ १७८ ॥
तत्साध्यफलवाञ्छावान् भेदाभेदौ तदाश्रयौ ।
चिन्त्यते स्वात्मना भेदः ;

अपि चायं व्यवहारी पुरुषो यमर्थस्यात्मानं स्वभावं पुरस्कृत्य प्रवृत्तिविषय
त्वेनाग्रहं कृत्वा तत्साध्यफलवाञ्छावान् अर्थसाध्यफलसमीहायु
क्तः सन
1719 प्रवर्त्तते (।) तदाश्रयौ तदर्थविषयौ भेदाभेदौ शास्त्रकारैश्चिन्त्येते । न त्वर्थक्रिया
नुपयुक्तसामान्यविषयौ (।) तेषाञ्चार्थक्रियाकारिणां पुरुषप्रवृत्तिविषयाणामर्थानां
स्वात्मना स्वरूपेण भेदः ।1720

कथं तर्ह्येकबुद्धिशब्दविषयतेत्याह ।

व्यावृत्त्या च समानता ॥ १७९ ॥
अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ।
351

विजातीयाद् व्यावृत्या च सा समानताऽस्त्येव । स्वस्वभावनियतन्तु स्वलक्षणं
वस्तु नान्वेति सर्व्वत्र प्रवृत्त्यादिप्रसङ्गतः । अग्निरपि
(=स) लिल1721स्व
भाव एवेति (=स) लिलार्थी तत्रापि प्रवर्त्तेत । तस्मात् स्थितमेतत् (।) न
किञ्चित् किमप्यन्वेतीति1722 ।

ग. जैनमतनिरासः

एतेनैव यदाह्रीकाः किमप्ययुक्तमाकुलम् ॥ १८० ॥
प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् ।

एतेन सां ख्य मतनिराकरणेनैवाह्रीका दि ग म्ब रा1723 यत् स्यादुष्ट्रो दधि
वस्तुत्वात् । न वा स्यादुष्ट्रो1724 विशेषरूपतये
ति । किमप्ययुक्ततया हेयोपादेयविष
यापरिनिष्ठानादाकुलं प्रलपन्ति तदपि प्रतिक्षिप्तमेकान्तस्य भेदस्य सम्भवात् ।

आकुलत्वमेवाख्यातुमाह ।

सर्वंस्योभयरूपत्वे तद्विशेषनिराकृतेः ॥ १८१ ॥
चोदितो
दधि खादे
ति किमुष्ट्रं नाभिधावति ।

सर्व्वस्य वस्तुन उभयरुपत्वे1725 स्वपररूपत्वे सति तद्विशेषस्य दध्येव दधिनोष्ट्र69b
उष्ट्र एवोष्ट्रो न दधीत्यस्य भेदस्य निराकृतेः । दधि खादेति चोदितो नियोज्यः
किमुष्ट्रं प्रति नाभिधावति ।

अथारस्त्यतिशयः कशिचद् येन भेदेन वर्त्तते ॥ १८२ ॥
स एव विशेषोऽन्यत्र नास्तीत्यनुभयं परम् ।

अथास्ति दध्नः सकाशाद् उष्ट्रस्यातिशयो विशेषः कश्चिद् येन विशेषेण
चोदितेन भेदेन प्रतिनियमेन दधिशब्दाद् दध्न्येव उष्ट्रशब्दादुष्ट्र एव प्रवर्त्तते (।)
एवन्तर्हि
विशेष एवान्यत्रासम्भवी उष्ट्रो विशेषो दधिलक्षणोऽन्यत्र वस्तुनि
नास्तीति सर्व्वं वस्त्वनुभयं1726 न स्वपररूपं किन्तु परमेव परस्मात् ।

352

किञ्च (।)

सर्व्वात्मत्वे च सर्व्वेषां भिन्नौ स्यातां न धीध्वनी ॥ १८३ ॥
भेदसंहारवादस्य तदभेदादसम्भवः ।

सर्व्वेषां भावानां सर्व्वात्मत्वे च भिन्नौ धीध्वनी न स्यातामेकविषयत्वात् ।
तयोर्धीध्वन्योरभेदात् भेदसंहारवादस्यासम्भवः स्यात् । उष्ट्राद् भिन्नं दधीति
भेदव्यवहारो दध्येवोष्ट्र इति च तदात्मतोपसंहारव्यवहारश्च
बुद्धिशब्दयोरभे
दान्न स्यात् । न हि बुद्धिशब्दयोर्भेदव्यवहारो युक्तः । तन्निबन्धनत्वात् तस्य ।
तदभावेपि भावे चातिप्रसङ्गात् । भेदप्रतीत्योर्भावात् तादात्म्योपसंहारश्च कथं
तदधीनत्वात् तस्य ।

  1. स्वभावाभेदेपि लक्षणभेदात् अवस्थायाः ।

  2. अनुगतव्यावृत्तयोरश्लेषात् ।

  3. सामान्यं विशेष इति भेदस्थापनात् ।

  4. भेदो निःसामान्यः सामान्यं निर्व्विशेषः ।

  5. अजन्यजनकत्वेन सम्बन्धाभावात् ।

  6. दिगम्बरस्योर्ध्वतासामान्यं सांख्यस्य तिर्यक् एकदोषेण (देशिनं) निरस्य तिर्यक्सामान्यं पुनराह ।

  7. अर्थार्थिनः सामान्यस्य भेदाभेदचिन्तया न कि(ञ्चि)दनर्थत्वात् ।

  8. आत्यन्तिकोस्त्येव ।

  9. अथ स्वलक्षणमन्वेष्यतीति किं कल्पितव्यावृत्त्यापीत्यपि न परस्परं भेदात् ।
    यदि घटः पटे स्यादुदकार्थी पटेपि प्रवर्त्तेत न चास्तीति न प्रवृत्त्यादिना तुल्योत्पत्ति
    निरोधादि ।

  10. सामान्यविशेषयोर्वस्तुत एकत्वात् कृतकानित्यत्वानि वा
    व्यभिचारो व्यावृत्तस्वलक्षणस्यैव सामान्यत्वात् बौद्धे ।

  11. सर्वः सर्वस्वभावो न च सर्वस्वभावः ।

  12. दध्यवस्थायां ।

  13. दध्यादेरुष्ट्रादिषु तादात्म्यानुगमात् ।

  14. स्वरूपभेदवल्लक्षणभेदश्चेत् न च द्रव्यत्वं द्रव्यादिव्यतिरिक्तं भावि ।