परंपरया साध्यसाधनात् प्रमाणं पक्षवचनं वक्तुरभिप्रायनिवेदने प्रमाणन्तर्हि
स्यादित्याह ।

साध्यस्यैवाभिधानेन पारंपर्येण नाप्यलम् ।
शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥ १७ ॥
420

पारम्पर्येणापि पक्ष
वचनमलं समर्थं साध्यसिद्धौ । साध्यस्यैव केवल
स्याभिधानात् । न हि पक्षवचसा साधकं किञ्चिदुच्यते साध्यमात्रस्यैवाभिधा
नात् । 2149त्रिरूपस्य हेतोर्व्वचो वचनन्तु स्वयं साक्षात् सिद्धावशक्तमपि (।)
शक्तस्य त्रिरूपलिङ्गस्य सूचकं प्रतिपादकमिति साधनमुचितं ॥ (१७)

  1. हेतुवचोवत् पारंपर्येण स्यादौपचारिकं साधनं तत्तु साध्यस्यासिद्धस्याभिधायकमिति नोपचरितोपि साधनं उक्तञ्च ।

    तत्रानुमेयनिर्देशो हेत्वर्थविषयो मत इति ।