अनुमानबाधायामन्तर्भावादनयोरभ्यु2267पगमप्रतीतिबाधयोः (।)

सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् ।
एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥ १३० ॥

सिद्धयो2268रपि पृथगाख्याने विषयभेदलक्षणं प्रयोजनन्दर्शयन्ना चा र्य एते अभ्यु
पगमप्रतीतिबाधे सहेतुके प्राह2269 । न सन्ति 2270 प्रमाणानि प्रमेयार्थानीति2271
प्रतिज्ञामात्रे2272णेति (।) अत्र प्रतिज्ञा
मात्रं शास्त्रस्ववचनयोः सिद्धयोरप्रामाण्यप्रति
ज्ञाबाधकमुक्तम् (।) अतोप्य2273साधारणत्वादनुमानाभावे शाब्दप्रसिद्धेनापोद्यते न
सपक्ष इति । अत्र शाब्दप्रसिद्धेन शशिनश्चन्द्रत्वेनाचन्द्रत्वप्रतिज्ञाया बाधनमुक्तं ।
अनुमाध्यक्षबाधने तु न सहेतुके प्राह ।2274अश्रावणः शब्दो नित्यो घट इति तस्माद्
विषयभेदोपलक्षणार्थ सहेतुत्वाहेतुत्वदर्शनं । प्रत्यक्षानुमा
न बाधे सर्व्वाविषये ।92b अभ्युपगमप्रतीतिबाधे तु नियतविषये इत्यर्थः ॥ (१३०)

  1. स्ववचनाप्तवचनयोर्ग्रहोनेन ।

  2. अनुमानापृथ(?)क्त्वेन निश्चितयोः ।

  3. नागः ।

  4. समुच्चयमाह प्राक् प्रामाण्यमाज्ञाय विरोधमनेन ।

  5. हेतुनानेन सहेतुकमाह ।

  6. शास्त्रस्ववचनप्रामाण्याख्येन ।

  7. दृष्टान्ताभावात् ।

  8. उद्योतकरादिनोक्तः । सम्बन्धो नाध्यक्ष इत्युक्त्वा ।