(३) धर्मिस्वरूपनिरासः

स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः ।
बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥ १४७ ॥

यतः कारणात् स्वयम्वादिनेष्टो
धर्मः साध्यस्तस्मात्
साध्यधर्मसाश्रयः यः स एव बाध्यः केवलो न बाध्यः । यथा वस्तुभूताकाशबाधायामपि नित्यैक
रूपत्वाभावस्य साध्यधर्मस्य न क्षतिः । साध्यधर्मादन्यस्य च धर्मस्याश्रयो न बाध्य
इति
स्वयंशब्देन सूचितं । यथाऽनित्यत्वे साध्ये शब्दे आकाशगुणत्वाश्रयत्वेन बाधायामपि न दोषः । (१४७)