504
103b भावो धूमः शक्र
मूर्ध्नो जायते । तदा वह्नेरेव शक्रमूर्द्धा । अथानग्निस्तथाऽदृश्य
मानत्वात् तथा सोपि न धूमो वास्यादिरेव आकारसाम्यात्तु धूमाभः । तस्मात्2398
कार्यकारणभावस्य नान्तरीयक2399तेति स्थितं ॥ (२५७)
स्वभावस्य च हेतोर्नान्तरीयकता साध्या अविनाभाविता ज्ञेया । यथास्वं यस्य स्वभावहेतोर्य आत्मीयस्तादात्म्यसाधको हेतुः साधनं तस्यापेक्षया । यथा
प्रागुक्तं विनाशकृतकत्वयो
स्तादात्म्यसाधनं अवश्यं हि कृतकानाम्विनाशः । न
चार्थसापेक्षाणामवश्यं भावः । ततः स्वभावत एव कृतकानन्नश्वराणां विनाशं
प्रत्यनपेक्षित्वादिति दर्शितं । तदेव स्वभावकार्ययोरव्यभिचारित्वाद्धेतुत्वं । न च
प्राणादेरात्मकार्यत्वं सिद्धमिति कथं हेतुता । (२५८)
ख. प्राणादेरुक्तो दोष आचार्येण
नन्वयं प्राणादेरुक्तो दोषकलापि आ चा र्ये णे ष्ट इति कथं गम्यत इत्याह ।
सर्व्वस्यासादार
णस्य दोषदुष्टत्वेन साम्यदृष्टये तुल्यतोपदर्शनाया चा र्ये ण श्राव
णत्वस्यासाधारणस्य योक्तिः कृता तस्या एवायं व्यतिरेकिणः प्राणादेरन्यस्य च
हेतोरहेतुत्वगतिन्यायः सर्व्वोऽभ्यूह्यः । (२५९)
(७) अनुपलब्धिचिन्ता
(१) अनुपलब्धेः पृथगग्रहणे कारणम्
ननु यथा स्वभावकार्यसिद्ध्यर्थं द्वौ हेतू उक्तौ तथाऽनुपलब्धिरपि वक्तुं युक्ता
हेतुत्वात् । स्वभावानुपलब्धिस्तावत् तादात्म्यप्रतिबन्धात् स्वभावहेतोर्न भिद्य
त
इति स्वभावहेतुर्निर्देशादेव निर्द्दिष्टा । कारणव्यापकानुपलब्धिभ्याञ्च निषेध्या
नुपलब्धिरेव प्रतिपाद्यत इति न तेपि स्वभावानुपलब्धेर्भिद्यन्ते । उदाहरणन्तर्हि
कस्मान्नोक्तमित्याह ।