505
हेतुस्वभावनिवृत्त्यैवार्थनिवृत्तिवर्णनात् ।
सिद्धोदाहरणेत्युक्तानुपलब्धिः पृथग् न तु ॥ २६० ॥

त्रिविधाप्यनुपलब्धिर्व्विपक्षाद्धेतोः कारणस्य स्वभावस्य व्यापकस्य निवृत्यै
वार्थस्य कार्यस्य व्याप्यस्य च निवृत्तेर्व्वर्णनात् सिद्धोदाहरणेति न पृथगुक्ता ।
स्वभा
वानुप(ल)ब्धिः कारणव्यापकाभावसाधिका । तयोरनुपलब्धिस्तु कार्य
व्याप्याभावसाधनीति त्रिविधानुपलम्भोदाहरणं सिद्धं । (२६०)

उपलब्धिलक्षणप्राप्तविषयत्वमनुपलब्धेर्व्विशेषणं कथं सिद्धमिति चेदाह ।

तत्राप्यदृश्यात् पुरुषात् प्राणादेरनिवर्तनात् ।
सन्देहहेतुताख्यात्या दृश्येर्थे सेति सूचितम् ॥ २६१ ॥

प्राणादेर्हेतोरदृश्यात् पुरुषादात्म2400नोऽनिवृत्तेर्निवृत्त्यसिद्धे जीवच्छरीरे सन्देह
हेतु
तया आख्यात्या कथनेन तत्रानुपलब्धाव
पि दृश्येऽर्थे याऽनुपलब्धिः सा भाव
साधिका नान्येति सूचितमा चा र्ये ण । यदि त्वनुपलब्धिरित्येव प्रमाणं तदाऽत्मनि
प्राणादेर्निवृत्तिः सिध्येत् । ततश्च जीवच्छरीरे वर्त्तमानमात्मानं गमयेदिति न
सन्देहहेतुः स्यात् । (२६१)

ननु यथा व्यवच्छेदविषयाऽनुपलब्धिः तथा कार्यस्वभावावपीति अनुप
लब्धिरेवैको हेतुः स्यादित्याह ।

अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेनया ।
वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥ २६२ ॥

अनयानुपलब्ध्या
न केवलम्वस्तुनि अवस्तुन्यपि निषेधः केवलो नाङ्गीकृत
वस्त्वंशः
कारणव्यापकानुपलब्धिभ्यां वस्तुव्यवच्छेदमात्रं अभावव्यवहारश्च
साध्यते (।) यथा प्रदेशे धर्मिणि घटाभावः । पूर्व्वाभ्यां कार्यस्वभावाभ्यां त्वन्य
व्यवच्छेदे नैकस्य विधानतः पर्युदासः साध्यते (।) यथाऽनग्निव्यवच्छेदेनाग्निः ।
नित्यव्यवच्छेदेनानित्यत्वं । (२६२)

ननु स्वभावानुपलब्धौ कथं तादात्म्यं प्रति
बन्ध इत्याह । 104a

तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् ।

तत्रोपलभ्येषु भावेषु विचार्यमाणमस्तित्वमुपलब्धेरपरं न भवति । यदि
ह्युपलब्धिः कर्मधर्मस्तदोपलभ्यमानतास्तित्वं । अथ कर्तृधर्मो ज्ञानं । तदा

  1. अन्यत्रादृष्टरूपस्येत्यादिनात्मनोऽदृश्यस्याव्यतिरेकेण ।