001

प्रथमः परिच्छेदः ॥

प्रमाणसिद्धिः

1b
विमुक्तावरणक्लेशं दीप्ताखिलगुणश्रियं ।
स्वैकवेद्यात्मसम्पत्तिं नमस्यामि महामुनिम् ॥
स्वयमपि कृतिनां महद्भिरन्यैरपि गमितो बहुविस्तरैर्न्न योयम् ।
तदपि च सुगमो न मद्विधानामिति विवृतिच्छलतः करोमि चिन्ताम् ॥
अहमपि न निजैकलाभलुब्धो न च परकृत्यरसाभिलाषमुक्तः ।
फलति पुनरियं परार्थवाञ्छाव्रततिरभीष्टफलानि पुण्यभाजाम् ॥

क. नमस्कारश्लोकः

शास्त्रा1दावविध्नेन तत्समाप्त्यर्थं
भगवति प्रसादजनने श्रोतृ2जनानुग्रहार्थञ्च
स्तुतिपूर्वकमाचार्यो नमस्कारश्लोकमाह ।

विधूतकल्पनाजालगम्भीरोदारमूर्तये ।
नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ १ ॥

विधूतं3 विध्वस्तं अनुत्पत्तिकधर्मतामापादितं कल्पना ग्राह्यग्राहकाध्यारोपः सैव
जालं बन्धनहेतुत्वात् यासां ता विधूतकल्पनाजालाः । एतेन धर्मकाय उक्तः4 । द्वय
शून्यताया धर्मधातुत्वात् (।) तदधिगमस्य धर्मकायत्वात् । गम्भीराश्च खड्ग
002 श्रावकाद्यविषयत्वात् । उदाराश्च सकलज्ञेयसत्वार्थ
व्यापनादिति गम्भीरो
दाराः
 । आभ्यां साम्भोगिकनैर्म्माणिककायावुक्तौ तयोरेव स्वरूपत्वात् ।
विधूतकल्पनाजाला गम्भीरोदारा मूर्त्तयो यस्य स विधूतकल्पनाजालगम्भोरोदार
मर्त्तिः
(।) एतेन स्वार्थसम्पदुक्ता त्रिकायलक्षणत्वात्तस्याः ।

समन्तं निरवशेषं भद्रं कल्याणं परार्थसम्पत्सम्भारलक्षणं यस्मादसौ समन्तभद्रः (।) अनया भगवन्नामव्युत्पत्त्या परार्थसम्पदभिहिता5 । समन्ततः स्फ
रन्तीति
समन्तस्फरण्यः त्विषः ताव (त्) त्विषो देशना यस्य स समन्तस्फरणत्विट् वस्तुतत्त्वावभासनोपायता च त्विड्देशनयोः साधर्म्यं (।) अनेन परार्थसम्पदुपायो
दर्शितः । देशनाद्वारेण भगवता जगदर्थकरणात् । एतेन स्तुतिरुक्ता असाधारणानां
स्वपरार्थसम्पत्तितदुपायानामुपदर्शनात् । सर्व्वत्र नमःश6ब्दयोगाच्चतुर्थी । अनेन
नमस्कारोभिहितः । यदा तु समन्तभद्रशब्दो
रूढ्या बोधिसत्त्वविशेषे वर्तते
तदापि पदव्याख्यानं पूर्ववदेव । अयन्तु विशेषः । विधूतकल्पनाजालत्वं बोधि
सत्त्वभूम्यावरणप्रहाणतो वेदितव्यं । गाम्भीर्यन्तु खड्गश्रावकाविषयत्वात् । औदार्यन्तु
दर्श भूमीश्वरबोधिसत्त्वमाहात्म्यातिशयतः । कायत्रयन्तु बोधिसत्त्वानामप्यस्ति
प्रकर्षनिष्ठागमनात्तु भगवतां व्यवस्थाप्यते । देशना च प्रसिद्धैव तेषां ॥ (१) ॥

ख. शास्त्रारम्भप्रयोजनम्

श्रोतृदोषबाहुल्याच्छा
स्त्रेण परोपकारमपश्यन् सूक्ताभ्यासभावितचित्तता
मेवात्मनः शास्त्रारम्भकारणन्दर्शयन् वक्रोक्त्या दोषतापनयनेन शास्त्रे श्रोतृन्
प्रवर्तयितुम(ा) ह ।

7 प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलं,
नानर्थ्येव सुभाषितैः परिगता विद्वेष्ट्यपीर्ष्यामलैः ।
तेनायं न परोपकार इति नश्चिन्तापि चेतस्ततः,
सूक्ताभ्यासविबर्द्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ २ ॥

प्रायो भूयान् बाहुल्येन वा जनः प्राकृतेषु बहिःशास्त्रेषु सक्तिरभिष्वङ्गो यस्य
स प्राकृतसक्तिरनेन कुप्रज्ञत्वं श्रोतृदोष उक्तः । अप्रतिबला शास्त्रार्थग्रहणं प्रत्य
शक्ता प्रज्ञा यस्यासावप्रतिबलप्रज्ञः अनेनाज्ञत्वमुक्तं ।
केवलं, नानर्थ्येव सूभाषितैः ।
किन्तु सुभाषिताभिधायिनं ईर्ष्या परसंपत्तौ चेतसो व्यारोषः सैव मलश्चित्त8मलिनी
003 करणात् । तैः परिगतो युक्तः सन् विद्वेष्ट्यपि । ईर्ष्यामलैरिति व्यक्त्यपेक्षया
बहुवचनं । अनेन यथाक्रममनर्थित्वममाध्यस्थ्यञ्चोक्तं (।) तेन श्रोतृदोषकलार्पेन
अयमा
रिप्सितो वार्त्तिकाख्यो ग्रन्थः (।) परमुपकरोतीति परोपकार इति नोऽस्माक
ञ्चि
न्तापि
नास्ति । कथन्तर्हि शास्त्रकरणे प्रवृत्तिरित्याह चेतश्चिरं दीर्घकालं 2a
सूक्त
स्याभ्यासेन विवर्द्धितव्यसनं विस्तारिताभिष्वङ्गमितिहेतोरत्र वार्तिककरणे
ऽनुबद्धस्पृहं
जाताभिलाषं । एतेन कुप्रज्ञतादिदोषजातमात्मनो बोधिताः श्रोतार
स्तत्परिहारेण शास्त्रे प्रवर्तिता एव भवन्ति ॥ (२)

ग. प्रमाणसिद्धिः

अयमाचा र्यो बृहदाचार्यीय प्र मा ण स मु च्च य शा स्त्रे वार्त्तिकं चिकीर्षुः
स्वतः कृतभगवन्नमस्कार(:) तच्छास्त्रा
रम्भसमये तदाचार्यकृतभगवन्नमस्कार
श्लोकं व्याख्यातुकामः प्रथमं9 प्रमाणसामान्यलक्षणमाह (।)

  1. स्तुत्या पुण्योपचयात् ।

  2. व्याख्यातुश्चेति परार्थदर्शनात् ।

  3. सर्व्वावरणविगमात् ।

  4. पूजेयं नमः शब्दात्प्रणामतः शिष्टैश्च तेश्च । तच्च स्वपरार्थतदुभयसम्पत्तिस्ततः अवृत्तिहानिगाम्भीर्य्यौदार्यविशेषैस्त्रिभिः स्वार्थ उक्तः ।

  5. तदर्थिनां यथा ।

  6. अकारान्तः सकारान्तस्तृतीयार्थ इत्यन्ये । जनकायः ।

  7. द्रष्टव्यं परिशिष्टं ।१-४

  8. आत्मात्मीयास्त्रैधातुकाश्च चैत्ताः सवासनाः ।

  9. द्वितीयां सम्वित्तिसिद्धिम् । प्रमाणं भूतो जातो भगवान् मानमिव किन्त
    दित्याह ।