001
प्रथमः परिच्छेदः ॥
प्रमाणसिद्धिः
1bविमुक्तावरणक्लेशं दीप्ताखिलगुणश्रियं ।
स्वैकवेद्यात्मसम्पत्तिं नमस्यामि महामुनिम् ॥
स्वयमपि कृतिनां महद्भिरन्यैरपि गमितो बहुविस्तरैर्न्न योयम् ।
तदपि च सुगमो न मद्विधानामिति विवृतिच्छलतः करोमि चिन्ताम् ॥
अहमपि न निजैकलाभलुब्धो न च परकृत्यरसाभिलाषमुक्तः ।
फलति पुनरियं परार्थवाञ्छाव्रततिरभीष्टफलानि पुण्यभाजाम् ॥
क. नमस्कारश्लोकः
शास्त्रा1दावविध्नेन तत्समाप्त्यर्थं
भगवति प्रसादजनने श्रोतृ2जनानुग्रहार्थञ्च
स्तुतिपूर्वकमाचार्यो नमस्कारश्लोकमाह ।
विधूतकल्पनाजालगम्भीरोदारमूर्तये ।
नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ १ ॥
विधूतं3 विध्वस्तं अनुत्पत्तिकधर्मतामापादितं कल्पना ग्राह्यग्राहकाध्यारोपः सैव
जालं बन्धनहेतुत्वात् यासां ता विधूतकल्पनाजालाः । एतेन धर्मकाय उक्तः4 । द्वय
शून्यताया धर्मधातुत्वात् (।) तदधिगमस्य धर्मकायत्वात् । गम्भीराश्च खड्ग