ननु शब्दस्यार्थप्रतिबन्धाभावान्न प्रामाण्यं स्यादिष्यते चानुमानत्वादि
त्याह(।)

वक्तृव्यापारविषयो योर्थो बुद्धौ प्रकाशते ।
प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥ ४ ॥

वक्तृर्व्यापारो विवक्षा तस्य विषयो योऽर्थः समारोपितबही रूपो ज्ञानाकारः
प्रकाशते बुद्धौ विवक्षा19त्मिकायां (।) तत्र शब्दस्य प्रामाण्यं लिङ्गत्वं । शब्दादुच्च
रिताद्विवक्षितार्थप्रतिभासी विकल्पो20नुमीयत इत्यर्थः । तत्कार्यत्वात्तच्छब्दस्य ।
पुनरर्थतत्त्वनिबन्धनं
तत्प्रतिबन्धाभावात् ॥ (४)

  1. संकेतबलात् ।

  2. विकल्पशब्द . . . न नदी . . . . . . । . . .