ननु घ21टोयमित्यादिज्ञानात्प्रवर्तमानस्य सम्बन्धोस्त्येवेति तत् प्रमाणं
स्यात् (।) इत्याह ।

005
गृहीतग्रहणान्नेष्टं सांवृतं, धीप्रमाणता ।
प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥ ५ ॥

गृहीतग्र
हणान्नेष्टं सांवृतं
दर्शनोत्तरकालं सांवृतं विकल्पज्ञानं प्रमाणं नेष्टं 2b
दर्शनगृहीतस्यैव ग्रहणात् तेनैव च प्रापयितुं शक्यत्वात् सांवृतम22किञ्चित्करमेव ।
कस्मात्पुनर्द्धियः प्रमाणतेष्यते नेन्द्रियादेः(।) हेयोपादेयवस्तुविषयायाः प्रवृत्ते23स्तत्
प्रधानत्वात्
ज्ञानप्रधानत्वात् धिय एव प्रामाण्यं (।) न हीन्द्रियमस्तीत्येव प्रवृत्तिः
किन्तर्हि ज्ञानसद्भवात् साधकतमञ्च प्रमाणं तस्याव्यवहितव्यापार
त्वात् । (५)

  1. येन ज्ञात्वा प्रवृत्तस्यार्थसंवादस्तच्चेत्प्रमाणं घटविकल्पोपि स्यात्प्रमा ॥

  2. . . . . . . . घटः । तद्गतसत्ता महासामान्यं । तत्संख्यान्तर्ग्गतः । उत्क्षेपणं कर्म तस्यैवैते व्यपदेशा इति सांवृताः ।

  3. ज्ञात्वैव पुंसः प्रवृत्तेः ।