019 प्राप्ताऽङ्कुरजन्मनि हेतुर्भवति (।) स तु पूर्व्वपरैकरूपः क्रमाक्रमयोरर्थक्रिया
विरोधात् । कुत एतदिति चेत् तस्य भूम्यादेः कर्षणपांसुप्रक्षेपादिना संस्कारे तस्याङकुरस्य पुष्टतरादिविशेषस्य दर्शनात् । (२७)
ननु यथा विशेषेण विना विषयेन्द्रियसंहतिरक्षेपक्रियाधर्मिणी बुद्धेर्हेतु
र्भवति15b
तथेदमीश्वरादि वस्तुविशेष120 म्विना सहकारिसन्निधानेन कार्यं करोतीति चेत् ।
न (।) तत्रापि विषयेन्द्रियादिसंहतौ प्रागवस्थावदुपसर्प्पणप्रत्ययजनिताद्विज्ञानजनन
शक्तक्षणप्रज्ञालक्षणाद्विशेषात् । (२८)
अन्य121था (।)
पृथक् पृथगशक्तानां विषयेन्द्रियाणां स्वभावातिशयेऽसति संहतावप्य122 सामर्थ्यं
स्यात् । ज्ञानार्जनम्प्रति स्वरूपाभेदात् । उत्पद्यते च ज्ञानं सिद्धोतिशयस्ततो ज्ञानो
त्पादात् । (२९)
b. संहतौ हेतुता नेश्वरादौ
तस्मात् पृथगशक्तेषु येषु
सम्भाव्यते गुणः स्वरूपान्तरोत्पादलक्षणं संहतौ हेतुता
तेषां क्षणिकानां नेश्वरादेर123 भेदतः । ईश्वरप्रधानपुरुषादेरकारकाभिन्नस्वरूपत्वान्न
हेतुत्वमित्यु124पसंहारः । उक्तमीश्वरादिदूषणं ॥ (३०) ॥
२. भगवान् प्रमाणम्
(१) ज्ञानवत्वात्
भगवतोपि साधनाभावादप्रामाण्यं परमतेनाशङ्कते ।