अत्राह ।

ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशङ्‏किभिः ॥ ३२ ॥

न खलु व्यसनितया प्रमाणमन्विष्यते प्रेक्षावद्‏भिरपि तु स्वर्ग्गापवर्गप्रधान
पुरुषार्थं प्रेप्सुभिः तद्विषयज्ञानवान् कश्चिदन्विष्यते तदुक्तस्योपायस्य प्रतिपत्तये
ऽनुष्ठानार्थं अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः विसम्वादं सम्भावयद्‏भिः ॥ (३२)