020
प्रामाण्यञ्च परोक्षार्थज्ञानं तत्साधनस्य च ।
अभावात्; नास्त्यनुष्ठानमिति केचित् प्रचक्षते ॥ ३१ ॥

प्रामाण्यञ्च परोक्षार्थज्ञानं, न सर्व्वस्येष्यते । तत्साधनस्याभावात् । अनु
ष्ठा125नं
कस्यचिन्नास्तीति कथन्तथाविधप्रमाणोपपत्तिरिति केचित् जै
मि नी याः
प्रचक्षते । (३१)

अत्राह ।

ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशङ्‏किभिः ॥ ३२ ॥

न खलु व्यसनितया प्रमाणमन्विष्यते प्रेक्षावद्‏भिरपि तु स्वर्ग्गापवर्गप्रधान
पुरुषार्थं प्रेप्सुभिः तद्विषयज्ञानवान् कश्चिदन्विष्यते तदुक्तस्योपायस्य प्रतिपत्तये
ऽनुष्ठानार्थं अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः विसम्वादं सम्भावयद्‏भिः ॥ (३२)

तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् ।
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ ३३ ॥

दुःखोपशमोपायोपदेष्टुर्ज्ञानं मृग्यते यतस्तस्मादनुष्ठेयगतं संसारदुःखप्रशमोपायं
ज्ञानमस्य प्रमाणपुरुषस्य विचार्यतां । अनुपयोगि कीटसंख्यापरिज्ञानन्तस्योपदेष्टु
र्नोऽस्माकं न क्वचित्पुरुषार्थे उपयुज्यते इति न तद्विचार्यमिति प्रतिज्ञा प्रत्युपका
राद्यपेक्षासमं सर्वसत्वेषु। तस्माद्य
देवं प्रेक्षावतामनुष्ठेयन्तद्विषयमुपदेष्टुं ज्ञानमुपयुक्तं
नान्यविषयं । (३३)

(२) हेयोपादेयवेदकत्वात् न तु सर्ववेदकत्वात्

हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ ३४ ॥

तस्माद्धेयतत्त्वस्य दुःखसत्यस्य साभ्युपायस्य समुदय
सत्यान्वितस्योपादेय
तत्त्वस्य
निरोधसत्यस्य साभ्युपायस्य मार्ग्गसत्यसहितस्य प्रमाणपरिशुद्धस्य यो
वेदकः स प्रमाणमिष्टो न तु सर्व्वस्य यस्य कस्यचिद्विवेदकः । न खलु सकलज्ञानादार्य
सत्यचतुष्टयदेशनाऽपि तु तज्ज्ञानत्वात् तदुपदेष्टृतयैव च प्रामाण्यमिष्यते (। ३४)

तदेवाह ॥

  1. यत्साधनानुष्ठानात्प्रामाण्यं ।