५. प्रत्यक्षचिन्ता

(१) प्रत्यक्षलक्षणविप्रतिपत्तिनिरासः

क. कल्पनापोढं प्रत्यक्षम्

इदानीमवसरप्राप्तां प्रत्यक्षस्य लक्षणविप्रतिपत्तिं निराकर्त्तुमाह ।

प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।
प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ १२३ ॥

यत्तत्प्रत्यक्षमिति प्रसिद्धं
तत् कल्पनाया अपोढं द्रष्टव्यं कल्पनार्थरहितमित्यर्थः ।
तच्चैतदीदृशं प्रत्यक्षेणैव स्वसम्वेदनेनैव सिध्यति । कल्पनारहितस्यार्थस्य रूपस्य
सम्वेदनस्यापरोक्षत्वात् । यदि तु कल्पनास्वभावत्वमस्य स्यात्तथैव प्रकाशेत ।
विकल्पस्यापरोक्षत्वात् । तथा हि प्रत्यात्मवेद्यः सर्व्वेषां प्राणिनां विकल्पो नाम
संश्रयः
शब्दसंसर्गवान् । स यदि स्यादुपलभ्य एव भवेत्
(। १२३)