यतो भावनाया भाव्यस्पष्टतायामाधिपत्यं । तस्माद् भूतमार्यसत्यादि अभू
तमशुभादि यद्यदेवात्यन्तं भाव्यते । तद् भाव्यमानं भावनायाः सादरनिरन्तरदीर्घ
कालप्रवर्त्तितायाः परिनिष्पत्तौ
स्फुटा कल्पधीः सा फलं यस्य तत्तथा ।
(२८५)
तत्र भावनाबलभाविषु स्पष्टानिर्व्विकल्पेषु यत्संवादि उपदर्शितार्थप्रापकं
तद् भावनाजं प्रत्यक्षं प्रमाणमिष्टं ।
किमिवेत्याह (।)
प्राक् प्रथमपरिच्छेदे निर्ण्णीतं वस्तु सत्यचतुष्टयं तस्मिन्निव । यथा आर्य
स930त्त्यविषयं भावनाबलजं संवादित्वात्प्रत्यक्षं प्रमाणमेवमन्यदपीदृशं । शेषा931
अयथार्था उपप्लवा भ्रमा यथा अशुभा पृथ्वीकृत्स्नादिप्रत्ययाः । (२८६)
कल्पनापि स्वसंवित्ताविष्टा ना
र्थे विकल्पनादिति व्याख्यातुमाह932 (।)
शब्दार्थग्राहि अन्यव्यवच्छेदस्य ग्राहकं यज्ज्ञानं यत्र विषये तज्ज्ञानं तत्र कल्प
नोच्यते । ज्ञानानां स्वरूपञ्च स्वलक्षणात्मकं न शब्दस्यार्थो विषयोऽतो वाच्यत्वा
त्तत्र स्वरूपेऽखिलं ज्ञानमविकल्पत्वादध्यक्षं । उक्तं चतुर्व्विधं प्रत्यक्षं ॥ X X ॥
(२८७)
७. प्रत्यक्षाभासचिन्ता
प्रत्यक्षाभासमिदानीं वक्तव्यं ।