सुप्तस्य जाग्रतो वापि यैव धीः स्फुटभासिनी ।
सा निर्व्विकल्पोभयथाप्यन्यथैव विकल्पिका ॥ २९९ ॥

तस्मात्सुप्तस्य जाग्रतोपि वा यैव धीः स्फुटावभासिनी व्यक्तग्राह्याकारा सा
41a निर्व्विकल्पाऽभ्युपगन्तव्या
अन्यथैव ह्यस्फुटावभासिनी धीरुभयथा सुप्तस्य जाग्रतो
पि वा कल्पिका युक्ता । (२९९)