281 ज्ञानान्तरं विषयान्तरग्राहकमिति स्या
द्विषया1269न्तरसञ्चार इत्यभिमते यद्यन्त्यं ज्ञानं ज्ञानानुभवितृ नानुभूयते तदा सर्व्वस्यार्थस्य तत् ज्ञानस्य चाननुभूतिः प्रसज्यते परानुभूतवत् । पुरुषान्तरानुभूतार्थतज्ज्ञानयोरिव (५३९) ।
ननु आत्मनाऽनुभूतमर्थं-तत्-ज्ञानं-प्रत्यक्षं न परैरनुभूतमिति यद्युच्यते ।
नन्वन्त्यज्ञानाननुभवेऽर्थज्ञानस्याननुभवात् । तदनुभवाभावे चार्थानुभवासिद्धे
रात्मानुभूतिः सा कुतः सिद्धा । येनैव
मुच्यते । आत्मानुभूतं प्रत्य1270क्षं न परानु-55b
भूतमिति । (५४०)
ननु चक्षुरादावनर्थभूते चक्षुरादिना रूपाद्यनुभूतमिति यथा तथा ज्ञाना
ननुभवेप्यर्थो ज्ञात इति भविष्यतीत्याह (।)
अर्थव्यक्तिहेतोश्चक्षुरादेरर्थदर्शनेप्यप्रसिद्धिरव्यक्तिः स्यात्1271 यतो न कारण
दर्शनपूर्व्वकं कार्यदर्शनं । न तु व्यक्तेरूपलब्धेर्व्यक्तमर्थमिच्छतो व्यक्त्यसिद्धि
र्युक्ता । यदि पुनर्व्यक्तेरसिद्धावपि व्यक्तं वस्तूच्यते तदा सर्व्व
मिदं जगद्
व्यक्तं्1272 स्यात् । अव्यक्तव्यक्तिकत्वेन विशेषाभावात्1273तथा ह्यर्थो न सत्तामात्रेण
प्रतीत उच्यते । प्रतिपत्तिसंयोगात् (।) नापि ज्ञानसत्तामात्रेण परचित्तज्ञानेनापि
संवेदनप्रसङ्गात् किन्तु ज्ञानानुभवेनार्थप्रतीतिर्व्वाच्या । न चान्येन सम्वेदनं ज्ञान
स्योपपपद्यत इति स्वप्रकाशमेव स्वभावतस्तद्वक्तव्यमिति स्वसम्वेदनसिद्धिरिति ।
(५४१)
वृत्तौ प्रत्यक्षपरिच्छेदो द्वितीयः ॥