ननु आत्मनाऽनुभूतमर्थं-तत्-ज्ञानं-प्रत्यक्षं न परैरनुभूतमिति यद्युच्यते ।

आत्मानुभूतं प्रत्यक्षं नानुभूतं परैः यदि ।
आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ ५४० ॥

नन्वन्त्यज्ञानाननुभवेऽर्थज्ञानस्याननुभवात् । तदनुभवाभावे चार्थानुभवासिद्धे
रात्मानुभूतिः सा कुतः सिद्धा । येनैव
मुच्यते । आत्मानुभूतं प्रत्य1270क्षं
न परानु-55b
भूतमिति । (५४०)

  1. अनुभवसिद्धौ ह्यात्मपरविभागः ।