तदुदाहरन्नाह—
यासः प्रयासः खेदः । मानश्च प्रियविषयं प्रातिकूल्यम् । यासमानौ तुल्यौ, यदा समाना, तदायासोऽपीति समकालत्वात् । यथा चायासस्तापयति तथा मानोऽपि प्रियसङ्गमसुखविरहादिति । यस्याः तया समानयासमानया । सह मानेनार्हणेन गुणयोगाद् वर्तत इति समानया मान्यया अनया कयाचिदिष्टया । स त्वम् । असम गुणोत्कर्षादनुपम ! [मा] मां समानय संगमयेति कञ्चित् सुहृदमभ्यर्थयति कश्चित् कामी । पुनः सा विशिष्यते—या प्रणयिनी सह मया श्रिया वर्तत इति समा कान्तिमती । अनयस्याकार्यस्यासौ निषेधः तस्य मानं प्रमाणमनुभवं यातीति अनयासमानया । अकार्यपरिहारज्ञतया अनयासमानयेति निगमनीयम् ॥
यदुक्तम्—
- ३.३↩