तत्र दिङ्मात्रं सुकररूपं दर्शयन्नाह—

धराधराकारधरा धराभुजांभुजा महीं पातुमहीनविक्रमाः ।
क्रमात् सहन्ते सहसा हतारयोरयोद्धुरा मानधुरावलम्बिनः ॥ ७२ ॥

धरां धारयतीति धराधरः शेषो भुजगराजः, तस्याकारं सादृश्यं धारयन्तीति धराधराकारधराः । धराभुजां राज्ञां भुजा बाहवः । अहीनः पर्याप्तो विक्रमः शौर्यम् एषामित्यहीनविक्रमाः । सहसा त्वरितमकालक्षेपेण हता अरयोऽमीभिरिति हतारयः । रयेण वेगेन रंहसा उद्धुरा दुर्धराः । मान एव धूः कृत्यम् । मानधुरामवलम्बत इति मानधुरावलम्बिनः । महीं पृथिवीं पातुं रक्षितुं सहन्ते कल्पन्ते तादृशगुणयोगात् । क्रमात शास्त्रविहितेन क्रमेण न्यायेनेति यावत् । इह संदष्टयमकमादिमध्ययमकव्यपेतं मध्ययमकं व्यपेतमिति संभिन्नमुदाहृतम ॥