रसवदुदाहरन्नाह—

मृतेति प्रेत्य संगन्तुं यया मे मरणं मतम् ।
सैवावन्ती मया लब्धा कथमत्रैव जन्मनि ॥ २७८ ॥

इयं किल प्रेयसी मृता स्वर्गमगमदिति हेतोः प्रेतलोकान्तरे क्वचित् ययानया संगन्तुं योगार्थं मरणं देहविसर्जनं मतमिष्टं मम । मृत्वाप्यवश्यं तया संगंस्ये इति । सैव या परासुः किलासीत् नान्या अवन्ती अवन्तिराजतनया मया [अयातजीवि]तेन तथाव्यवसितेनात्रैव जन्मनि न प्रेत्य कथं लब्धा, किमिद77b मद्भुतम् । नास्ति भाग्यानां दुष्करम् । उदयनः किल वत्सराजः अवन्तिराजसुतायां वासवदत्तायामासक्तः राज्यचिन्ताविमुखोऽवर्तत इति मन्त्रिभिः सा क्वचिन्निगूह्य मृतेति ख्यापिता । स च तद्विरहमसहमानोऽतिरक्ततयाऽनुमरणं तत्सङ्गमवर्त्म व्यवससौ । ततस्तैः पुनर्जह्रे इति कथोदाहृता ॥