164
निगृह्य केशैष्वाकृष्टा कृष्णा येनाग्रतो मम ।
सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणम् ॥ २८० ॥

येन दुरात्मना ममाग्रतः पुरस्तात् केशेषु निगृह्य अवष्टभ्य कृष्णा द्रौपदी प्रिया आकृष्टा आक्षिप्ता परिभूता, सोऽयमेप पापो दुरात्मा दुःशासनो मया भीमेन लब्धः प्राप्तः किं क्षणमेकं जीवति ? नैव जीवितुं लभते । एष मया हतो वर्तते कौरवाणां पश्यताम् । त्रिभुवनमपि संहतमेतत्परित्राणे न समर्थमिति भीमो गर्जति ॥

कोऽयं रस इति दर्शयन्नाह—

इत्यारुह्य परां कोटिं क्रोधो रौद्रात्प्रतां गतः ।
भीमस्य पश्यतः शत्रुमित्येतद्रसवद्वचः ॥ २८१ ॥

इति उक्तेन प्रकारेण परां कोटिं प्रकर्षनिष्टामारुह्य प्राप्य अनुभावेनाभिव्यक्तिमागम्य क्रोधो भावविशेषो रौद्रात्मतां रौद्ररसविशेषम्वभावतां गतः । कस्यासौ क्रोधो य एवमवदत् ? भीमस्य शत्रुं दुःशासनं पश्यतः । अनेन तादृशवस्तुस्वभावो विभावो भावयोनिः सूचित इत्येवंविधं वचः काव्यं रसवद्रौद्ररसयोगादिति ।

अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः ।
अदत्त्वा चार्थमर्थिम्यो भवेयं पार्थिवः कथम् ॥ २८२ ॥

उर्वीं महीं सार्णवां सहार्णवैर्वर्तत इति चतुःसमुद्रपर्यन्तामजित्वा अनिर्जित्य अनात्मसात्कृत्वा तज्जयलब्धया च धनसम्पदा विविधैविचित्रैः शास्त्रोक्तैरश्वमेधविश्वजिद्वाजपेयराजसूयादिभिर्मखैर्यागविशेषैः करणभूतैः यागसामान्ये तद्विशेषस्य साधकतमत्वात् । अनिष्ट्वा यजनमकृत्वा अर्थिभ्यश्च वनीयकेभ्योऽर्थ यथार्थं यथाकाममदत्त्वा अप्रतिपाद्य अहं राजधर्मशून्यः कथं पार्थिवः पृथिवीपतिः भवेयम् ? नैव, पृथिवीजयादिलक्षणत्वात् पार्थिवताया इति ॥

कतरोऽयं रस इति विवृण्वन्नाह—

इत्युत्साहः प्रकृष्टात्मा तिष्ठन्वीररसात्मना ।
रसवत्त्वं गिरां तासां समर्थयितुमीश्वरः ॥ २८३ ॥