165 इत्युक्तेन विधिना उत्साहो भावविशेषः प्रकृष्ट आत्मा अस्येति प्रकृष्टात्मा परां कोटिमारूढ़ोऽभिव्यक्तत्वात् । वीरश्चासो रसश्च तस्य स एवात्मा स्वभावः तेन लक्षितः तिष्ठन् वर्तमानो वीररसतामापन्नः । तासामनन्तरोक्तानां गिरां काव्यरूपाणां रसवत्त्वं वीररसयोगितां समर्थयितुं कर्तुमीश्वरः समर्थ इति ॥

यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी ।
साधिशेते कथं देवी हुताशनवतीं चिताम् ॥ २८४ ॥

यस्या देव्याः कोमलमङ्गमस्या इति कोमलाङ्ग्याः मार्दवगुणेनैव केवलेन निर्मिताया अत एव कुसुममयी शय्या कुसुमशय्या पुष्पतल्पमत्यन्तकोमलं किमुतान्यत् ? रुजाकरी पीड़ाहेतुः । सेयमेकान्तसुकुमारदेहा देवी हुताशनवतीमनलज्वालाकरालां चितां चितिमन्तशय्यां कथं नामाधिशेते ? तस्य मार्दवस्य किमिदं शयनम् ? हा दग्धदैव ! किमिदं व्यवसितं त्वया इति ॥

कतमोऽयं रस इति प्रकटयति—

इति कारुण्यमुद्रिक्तमलङ्कारतया स्मृतम् ।
तथापरेऽपि बीभत्सहास्याद्भुतभयानकाः ॥ २८५ ॥

इति कथितेन [पथा] यथा कारुण्यं शोको भावविशेषः कारुण्याख्यरसविशेषाश्रयः उद्रिक्तमभिव्यक्तमागतं करुणरसात्मना वर्तमानमलङ्कारतया काव्यभूषणत्वेन स्मृतम् इष्टं तज्ज्ञैरिति । तथेत्यादि । यथा रतिक्रोधोत्साहशोकोद्रेकरूपाश्च