77b मद्भुतम् । नास्ति भाग्यानां दुष्करम् । उदयनः किल वत्सराजः अवन्तिराजसुतायां वासवदत्तायामासक्तः राज्यचिन्ताविमुखोऽवर्तत इति मन्त्रिभिः सा क्वचिन्निगूह्य मृतेति ख्यापिता । स च तद्विरहमसहमानोऽतिरक्ततयाऽनुमरणं तत्सङ्गमवर्त्म व्यवससौ । ततस्तैः पुनर्जह्रे इति कथोदाहृता ॥

ननु प्रीतिरियं पूर्वोदाहृता । तत्किमनयेति विशेषं दर्शयन्नाह—

प्राक् प्रीतिर्दर्शिता सेयं रतिः शृङ्गारतां गता ।
रूपबाहुल्ययोगेन तदिदंरसवद्वचः ॥ २७९ ॥

प्राक् प्रेयस्यलङ्कारे प्रीतिस्तुष्टिः पुरुषविषया दर्शिता । या पुनरियमनन्तरम् उदाहृता सा त्वियंरतिः स्त्रीविषयानुरक्तिः भावविशेषः शृङ्गाररसयोनिस्तादृशविभावजन्यस्तथाविधानुभावगम्यः । यदाह—शृङ्गारतां शृङ्गाराख्यरसविशेषत्वं गता तद्रूपेण परिणता । कुतः ? रूपस्य स्वभावास्यात्मीयस्य संकल्पविशेषलक्षणस्य बाहुल्येनोदीर्णतया अत्युपचयेन सह योगेन सम्बन्धेन हेतुना । एतदुक्तं भवति- रतिरियमव्यक्ता अनुपचिता अन्तस्तत्त्वेन वर्तमाना संकल्पविशेषस्वभावा भाव उच्यते । अत एव विकारो मानसो भाव इत्यमिधीयते । सैव यदा समुदीर्णा अनुभावात् कुतश्चिन्नाटिकाभिनयादिलक्षणात् व्यक्तिमायाति तदा शृङ्गारो नाम रसः सम्पद्यत इत्यत एवोच्यते- अभिव्यक्ता भावा एव रसाख्यां प्रतिलभन्ते । विस्तरस्तु तच्छास्त्रात् । वक्ष्यमाणेषु रौद्रादिषु रसेषु क्रोधादिभावपरिणामविशेषरूपेष्वप्ययं न्यायोऽनुगन्तव्य इत्यलं विस्तरेण । तत्तस्मादिदमीदृशं वचः काव्यं रसवद्विज्ञेयम्, शृङ्गार[र]सयोगात् । यद्वेदृशं तद्रसवद्वचनमिति योज्यम् ॥