170 निराकरणं कार्यमारब्धम्, तत्र विधिवशाद् घनगर्जितमपरं साधनं च समापन्नमिति लक्षणं योज्यम् ॥

॥ इति समाहितम् ॥

उदात्तमादर्शयन्नाह—

आशयस्य विभूतेर्वा यन्महत्वमनुत्तरम् ।
उदात्तं नाम तं प्राहुरलङ्कारं मनीषिणः ॥ २९८ ॥

आशयस्याभिप्रायस्य कस्यचिद्विभूतेः सम्पदो वा यन्महत्वमौदार्यमनुत्तरं नास्मादुत्तरमधिकमस्ति प्रकर्ष