केयमपह्नुतिरित्याह—

शैशिर्यमभ्युपेत्यैव परेष्वात्मनि कामिना ।
औष्ण्यप्रदर्शनात्तस्य सैषा विषयनिह्नुतिः ॥ ३०४ ॥

तस्य चन्दनादेर्वस्तुनः परेष्वन्येषु स्वस्थेषु विषये शैशिर्यं शैत्यमभ्युपेत्याग्निकृत्यापह्नुत्या एवात्मनि विषये केनचित् कामिना वियुक्तेन औष्ण्यस्य चन्दनादिगतस्य प्रदर्शनादुद्भावनात्कारणात् सैषा तादृशी विषयापह्नुतिः । विषये क्वचिद्वस्तुरूपापह्नुतेः, न सर्वत्रेति ॥