अमृतस्यन्दिकिरणश्चन्द्रमा नाम नो मतः ।
अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः ॥ ३०५ ॥

अमृतं सुधा स्यन्दन्ते स्रवन्तीत्यमृतस्यन्दिनः किरणाः अस्येति अमृतस्यन्दिकिरणः पदार्थविशेषश्चन्द्रमा नाम नोऽस्माकं मतः प्रसिद्धः । अयं तु अन्य एवार्थात्मा पदार्थः । कुतः ? विषममृतविरुद्धं निष्यन्दमानाः क्षरन्त्यो दीधितयः किरणा अस्येति विषनिष्यन्दिनो दीधितयो यतस्तस्मात्कथमयं चन्द्रस्तद्विरुद्धलक्षण इति कश्चिद्विरही विप्लवत इति ॥