इदं त्वनीदृशमपह्नुतिलक्षणमित्याशङ्क्याह—

उपमापह्नुतिः पूर्वमुपमास्वेव दर्शिता ।
इत्यपह्नुतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः ॥ ३०७ ॥

उपमापह्नुतिरीदृशी पूर्वमुपमाविकल्पेष्वेव दर्शिता अन्तर्भाविता ।

न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम् ।
कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥
96 इति संगृहीता । तन्नास्याः पृथग्लक्षणं लक्ष्यं चोच्यते । इति कथितपथानुसारेण अपह्नुतेर्भेदानां विकल्पानां विस्तरः प्रपञ्चो लक्ष्यो द्रष्टव्यः । लक्ष्येषु प्रयोगेषु सर्गबन्धादिषु स्वयं चैते प्रयोक्तव्याः । तद्यथा—
जगदेतत् प्रियासर्वं न जगन्नाम किञ्चिन ।
तथापि चित्तसन्तोषं नासादयसि न प्रियाम् ॥
सर्वापह्नुतिः ।
प्रिया नैवेयमन्यैव काचिदाभाति भामिनी ।
न हि सा निरनुक्रोशमेवं निरनुषेवते ॥
हेत्वपह्नुतिः ।
174
न स्तनद्वयमेतत्ते भारः कोऽप्येष दुर्वहः ।
कथं प्राणिमि तन्वङ्गि ! भृशमेतेन ताम्यसि ॥
चटुप्रधानापह्नुतिः ।
एवमन्येऽप्यपह्नुतिभेदाः कल्पनीया इति ॥

  1. २. ३४