80b स्मरः कामः पञ्चेषवोऽस्येति पञ्चेषुर्न भवतीति । इषूणां पञ्चत्वं धर्मोऽत्रापह्नूयते । न स्मर इषवो वा । यदाह—तस्य स्मरस्य पत्रिणामिषूणां सम्बन्धि सहस्रं सहस्रसंख्यता । अन्यथा कथं भुवनत्रयं जयेदिति । अन्यस्य सहस्रसंख्यालक्षणस्यार्थस्य धर्मान्तरस्य दर्शनमितीदृशी धर्मापह्नतिरवसेयेति ॥

चन्दनं चन्द्रिका मन्दो गन्धवाही च दक्षिणः ।
सेयमग्निमयी सृष्टिः शीता किल परान् प्रति ॥ ३०३ ॥

चन्दनं मलयजं चन्द्रिका ज्योत्स्ना मन्दो मृदुर्गन्धवाही पवनो दक्षिण इति यदेतत् सेयमीदृशी सृष्टिः स्रष्टुरग्निमयी दहनस्वभावा अस्माकम् [कृते] । परान् प्रति