दोषाकरेण सम्बध्नन्नक्षत्त्रपथवर्तिना ।
राज्ञा प्रदोषो मामित्यमप्रियं किं न बाधते ॥ ३१० ॥

प्रदोषो रजनीमुखम्, प्रकृष्टोऽधिको दोषो लोभादिरस्येति प्रदोषश्च कश्चित् पुरुषो विवक्षितः । दोषा रात्रिराकर आश्रयस्तत्र दर्शनात् । यस्य दोषाकर इति तत्सन्निधौ दृष्टेः, दोषाकरेण चन्द्रेण, दोषाणां क्रौर्यादीनामाकरः स्थानं तेन नृपेण । नक्षत्रपथे व्योम्नि वतते नक्षत्रपथवर्तिना चन्द्रेण, क्षत्रस्य पन्थाः क्षत्रपथः क्षात्रो धर्मः शिष्टपालनदुष्टनिग्रहादिरूपः, न तथाऽक्षत्रपथस्तद्वर्तिना राजधर्मातिक्रमिणा नृपेण संबध्नन् सङ्गच्छमानः । मामित्थमनेन प्रकारेण अप्रियं न विद्यते प्रियाऽस्येति विरहिणं प्रदोषः क्षणदावतारः । किं कस्मात् न बाधते न तापयति ? बाधत एव । अप्रियं न प्रियमप्रियं द्वेष्यं किं न बाधते नापकरोति ? निगृह्णात्येव प्रदोषः प्रकृष्टदोषः पुरुषः कश्चित् । इदं भिन्नपदप्रायं श्लिष्टमुक्तेन विधिना प्रदोष इत्यादीनां भिन्नत्वाद् राज्ञा इत्यस्याभेदादिति ॥