अलङ्कारान्तरगोचरः श्लेषोऽपि । स प्रागुक्त इति दर्शयन्नाह—

उपमारूपकाक्षेपव्यतिरेकादिगोचराः ।
प्रागेव दर्शिताः श्लेषा दर्श्यन्ते केचनापरे ॥ ३११ ॥

उपमा रूपकमाक्षेपः व्यतिरेकश्चादिर्यस्य दीपकार्थान्तरन्यासादेः स गोचरो विषयो येषां ते श्लेषाः प्रागेवोपमाप्रस्तावादिषु दर्शिताः । ततः सम्प्रति नोच्यन्ते । तत्रोपमागोचरः श्लेषः शिशिरांशुप्रतिद्वन्द्वीत्यादिना २.२८ दर्शितः । रूपकोपघ्नः राजहंसोपभोगार्हमित्यादिना २.८७ । आक्षेपविषयः अमृतात्मनि पद्मानामित्यादिना २.१५९ । व्यतिरेकाश्रयः त्वं समुद्रश्च दुर्वारावित्यादिना २.१८३ । दीपकाधिकरणो हृद्यगन्धवहा इत्यादिना२.११३ । एवमन्येऽप्यर्थान्तरन्यासादिगोचरा द्रष्टव्याः । ये तु पूर्वं नोक्तास्ते अपरेऽन्ये केचन कियन्तो निदर्श्यन्ते प्रतिपाद्यन्त इति ॥