176 अभिन्ना एका क्रिया यत्र स तादृशः कश्चिदस्ति श्लेषः । अविरुद्धे सहभाविन्यौ क्रिये यस्मिन् स तद्रूपोऽपरोऽन्यः कश्चिदस्ति । विरुद्धे कर्मणी क्रिये यत्र स चान्यः कश्चिदस्ति । श्लेष इति सर्वत्र सम्बध्यते । नियमोऽवधारणमस्मिन्नस्तीति नियमवानपि विद्यते कश्चित् ॥

नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि ।
तेषां निदर्शनेष्वेव रूपव्यक्तिर्भविष्यति ॥ ३१३ ॥

नियमस्याक्षेपो निषेधो रूपं स्वभावो यस्यां तथाविधोक्तिरभिधानं यत्र तादृशोऽप्यस्ति कश्चित् । नात्र विरोधोऽस्तीत्यविरोधी । सोऽप्यस्ति । विरोधोऽसङ्गतिरत्र विद्यत इति विरोधी । सोऽप्यस्ति । नामसङ्कीर्तनमात्रेण न ज्ञायन्त इत्याह—तेषां श्लेषाणामभिन्नक्रियादीनां निदर्शनेषु लक्ष्येष्वेव नाभिधानमात्रेण रूपस्य प्रतिनियतस्य लक्षणस्य व्यक्तिः प्रत्यवगमो भविष्यति । ततो यथाक्रमं निदर्श्यन्त इति ॥

स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम् ।
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियम् ॥ ३१४ ॥

कान्ताभिर्नायिकाभिः वासकशय्याभिः प्रेषिताः प्रयुक्ता दृशो दृष्टयो दूत्यश्च निसृष्टार्थादय[ः] स्वभावेनैव मधुराः सुभगा उभय्योऽपि स्निग्धाः । प्रेमरसभाविता दृशः दूत्यस्त्वपरुषाः । रागं भावमुल्बणमुदीर्णमन्तर्गतमाकारविशेषेण शंसन्त्यः सूचयन्त्यो दृशः । दूत्यस्तु रागमुल्बणं नायिकानुरक्तिमधिकां चतुरमाचक्षाणाः कर्षन्ति वशीकुर्वन्ति प्रियं वल्लभम्, यत्र प्रेषिताः । अयमभिन्नक्रियः श्लेषः, कर्षणलक्षणयैकया क्रियया दृशां दूतीनां च सम्बन्धादिति ॥

मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः ।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः ॥ ३१५ ॥

असितेक्षणाः स्त्रियः कोकिलानां गिरश्च वाचः । मधुराः मनोहराः द्वय्योऽपि । रागं रक्तिभावं वर्धयन्ति रागवर्धिन्यः उभय्योऽपि । कोमलाः कोकिलागिरः श्रवणानुद्वेजनीयत्वात्, असितेक्षणास्तु सुखस्पर्शत्वात् । कोकिलागिरो मदेन समयकृतेन हर्षविशेषेण कलाः पुष्टाः । असितेक्षणास्तु मदेन मधुपानजनितेन कलाः विह्वलाः ।