नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि ।
तेषां निदर्शनेष्वेव रूपव्यक्तिर्भविष्यति ॥ ३१३ ॥

नियमस्याक्षेपो निषेधो रूपं स्वभावो यस्यां तथाविधोक्तिरभिधानं यत्र तादृशोऽप्यस्ति कश्चित् । नात्र विरोधोऽस्तीत्यविरोधी । सोऽप्यस्ति । विरोधोऽसङ्गतिरत्र विद्यत इति विरोधी । सोऽप्यस्ति । नामसङ्कीर्तनमात्रेण न ज्ञायन्त इत्याह—तेषां श्लेषाणामभिन्नक्रियादीनां निदर्शनेषु लक्ष्येष्वेव नाभिधानमात्रेण रूपस्य प्रतिनियतस्य लक्षणस्य व्यक्तिः प्रत्यवगमो भविष्यति । ततो यथाक्रमं निदर्श्यन्त इति ॥