महीभृद्भूरिकटकस्तेजस्वी नियतोदयः ।
दक्षः प्रजापतिश्चासीत् स्वामी शक्तिधरश्च सः ॥ ३१९ ॥

178 स विवक्षितः कश्चिन्महीभृत्पर्वतः राजा च, भूरयो महान्तः कटकाः सानवो यस्य पर्वतस्य । भूरिर्विशालः कटकः स्कन्धावारः हस्ताभरणविशेषो वा यस्य स भूरिकटको राजा । तेजस्वी रविः प्रभावविशेषयुक्तश्च नियतः प्रतिदिनमुदयः प्रभावलक्षणो यस्य स नियतोदयो रविः, नियतः स्थिरः उदयो राज्यरूपो यस्य स नियतोदयो राजा । दक्षो नाम प्रजापतिर्विधाता कश्चित् । राजा च दक्षः शूरः प्रजानां लोकानां च 83a पतिः अधिपः स्वामी कार्त्तिकेयः प्रभुश्च, शक्तिः आयुधविशेषः तां धारयतीति शक्तिधरः स्कन्दः । शक्तिमुत्साहमन्त्रप्रभावरूपां धारयतीति शक्तिधरो राजा । आसीदभूत् । अयमविरोधी श्लेषः । महीभृद्भूरिकटकत्वादीनामुभयत्राप्यव्याहतेरिति ॥