अच्युतोऽप्यवृषोच्छेदी राजाप्यविदितक्षयः ।
देवोऽप्यविबुधो जज्ञे शङ्करोऽप्यभूजङ्गवान् ॥ ३२० ॥

अच्युतो विष्णुः, न्यायभ्रंशाभावात् । स्थिरश्च । तत्र यदाऽच्युतो विष्णुस्तदा वृषस्य वृषभस्य अरिष्टनाम्नस्तेनोच्छेदाद् अवृषोच्छेदित्वं विरुद्धम् । पक्षान्तरे तु अविरुद्धम्, वृषस्य धर्मस्य राज्ञा अनुच्छेदात् । राजा चन्द्रः, नृपश्च । तत्र चन्द्रस्य अविदितः क्षयोऽनेनेत्यविदितक्षयत्वं विरुद्धम्, दक्षशापेन कृष्णपक्षे क्षीयमाणत्वात् । पक्षान्तरे तु राज्यापचयाभावादव्याघातः । देवो गतिदेवो विबुधः । सम्मतिदेवश्च राजा । तत्र गतिदेवः कथमविबुधः, असुर इति विरुध्यते । सम्मतिदेवस्तु राजा, विबुधाः पण्डिता विगता यतः । न तथा अविबुधः बुधयुक्तः पण्डितमण्डलमण्डितास्थानमण्डपः । शङ्करस्त्रिलोचनः, शान्तिकरश्च । तत्र त्रिनेत्रः फणिधरनद्धजटाजूटः सारसनीकृतनागः कुण्डलीकृतपन्नगः कथमभुजङ्गवान् इति विरोधः । राजा तु धूर्तसंसर्गाभावाद् अभुजङ्गवानिति युज्यते । जज्ञे विदितः क्रियाविदित इति सर्वत्र सम्बन्धनीयम् । अयं विरोधी श्लेष उदाहृतः ॥