न देवकन्यका नापि गन्धर्वकुलसम्भवा ।
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् ॥ ३२३ ॥

इयं देवानां कन्यका योषिन्न भवति । सम्भवत्यस्मादिति सम्भवः । गन्धर्वाणां देवविशेषाणां कुलं वंशः सम्भवः, तत्र वा सम्भूतिरस्या इति गन्धर्वकुलसम्भवा न भवति । सा हि स्त्रीजातिरत्यन्ताभिरूपा । तथापि पूर्ववत् विशेषविवक्षायाम् । यदाह—एषा स्त्री या न तज्जातिः । वेधसोऽपि येन सृष्टा, यो वा वीतरागः प्रागेवान्यस्य । तपसो विषयसंयमस्य भङ्गं निवृत्तिं विधातुं कर्तृमलं समर्था । किमिदं रूप चातुर्यम् । इह देवजात्यादे रूपोत्कर्षवत्त्वनिवृत्त्या विशेषः, मानुष्यप्येवंविधा या प्रजापतिमपि रागपरवशं करोतीति दर्शितः ॥