सङ्गतानि मृगाक्षीणां तडिद्विलसितानि च ।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ ३३० ॥

मृगाक्षीणां सङ्गतानि प्रेमाणि त[डि]तां विद्युतां विलसितानि च यथायोगं घनैर्मेघैरारब्धानि घनं निरन्तरमारब्धान्यपि । किं पुनरन्यानि ? स्वयमात्मना प्रकृतिचापल्यात्, न तु कारणवैगुण्येन घनारब्धत्वात् क्षणद्वयमपि द्वाव84b पि क्षणौ न तिष्ठन्ति । किं पुनश्चिरम् ? यदि परमेकं क्षणं तिष्ठन्ति । इह विवक्षितेन गुणेन क्षणमात्रास्थायित्वेनोत्कृष्टैः प्रतीतैस्तड़िद्विलसितैः समीकृत्य स्त्रीप्रेम्णामतिचपलतया निन्दार्थं कीर्तनमिति लक्षणं योजनीयम् ॥