उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः ।
उदश्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥ ३३६ ॥

184 उद्यानेषु मारुतैरुद्धूताश्चूतानां चम्पकानां च रेणवः पौष्पाः परागाः । पान्थानां विरहिणां लोचनमस्पृशन्तोऽपि दूर एव दृश्यमाना उदश्रयन्ति । उदस्रवन्तीत्यपि पठ्यते । उभयत्रापि रोदयन्तीत्यर्थः । तच्च विरुद्धम् । स्पृशतामेव रेणूनां नयनजलोद्गमनिमित्तत्वात् । कथमस्पृशन्त उदश्रयन्ति ? अत्र स्पर्शनिषेधोदश्रयणयोः क्रिययोर्विरोध इति द्रष्टव्यम् । कूजितमित्यादेः [२.३३२] अस्य च को विशेषः । उभयत्रापि क्रियाविरोधात् । तत्र भिन्नाधिकरणयोः क्रिययोर्विरोधः । इह त्वभिन्नाधिकरण्योरिति महान् विशेषः । अन्यत्राप्येवंप्रकारत्वाद्विशेषस्थितेरिति ॥