85b व्याख्येयं शेषं समानम् ॥

तामुदाहरन्नाह—

सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ।
जलैरयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ॥ ३३९ ॥

जलैर्दर्भाङ्कुरैस्तृणोद्गमैः । आदिशब्देन तरुपल्लवादिभिरर्थैरुपकरणैर्वा अयत्नेन सेवापरिक्लेशादि[राहित्येन] सुलभैः [सुख]प्राप्यैरकृच्छ्राधिगतैरमृतायमानैरपरमन्यं कञ्चिदसेवमानाः परचित्ताराधनदुःखानभिज्ञाः स्वाधीनवृत्तयः सुखं निराकुलं [हरिणाः] वनेषु जीवन्ति । अपि नाम तादृशी वृत्तिरस्माकमपि स्यात् ? प्रतिपक्षपातः खलु प्रजायते । तादृशीं कल्याणीं वृत्तिं कल्पयतो हरिणेषु ईर्ष्या लक्ष्यत इति ॥

सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ।
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥ ३४० ॥

सेयमनन्तरोक्ता मृगाणां वृत्तिरयत्नसुलभजलदर्भाङ्कुररूपा जीविका, वर्तन्ते जीवन्त्यनयेति कृत्वा । अप्रस्तुता अप्रक्रान्तैव, न प्रस्तुतापि तादृशप्रकरणाभावात् । प्रशस्यते संराध्यते अत्र प्रयोगे केनचिद् राज्ञोऽनुवर्तनम् सेवा तदेव क्लेशः दुःखरूपत्वात् । ततो निर्विण्णेनातिविरक्तेन मनस्विनोदात्तेन केनचित्ततोऽप्रस्तुतापीयमीदृग्विषया [स्तुतिः] काव्यशोभाकरत्वादलङ्कारः । अयमपरोऽत्र उदाह्नियते—

सुखिनस्ते महात्मानः संतोषपरिभाविताः ।
सुखाभासैः परिक्लेशैर्वर्जितात्मपरिग्रहैः ॥
इत्थमप्रक्रमेणैवमनिवृत्तिः प्रशस्यते ।
धनार्जनादिसंक्लेशनिर्वेदवशवर्तिना ॥
समासोक्तेरियं कथं भेद्यते, उभयत्राप्यन्यदभिप्रेत्यावान्तराभिधानात् ? तत्र सदृशम एवार्थान्तरमभिधीयते । इह तु विसदृशमिति महान् भेदः । विसदृशात् कथमर्थान्तर-