यत्र तेनैव तदुपमीयते स तद्धर्मः तस्यान्यत्र क्वचिदवृत्तेरनन्वयनाम अलङ्कारः । यदाहुः—

यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥
ताम्बूलरागवलयं स्फुरद्दशनदीधिति ।
इन्दीवराभनयनं तवेव वदनं तव ॥
100

यत्रोपमानेन सहाभेदः, भेदश्च स्तुतिपरः परिदीप्यते ससंदेहो नामासावलङ्कारः कल्पितः । यथोक्तम्—

उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससंदेहं वचः स्तुत्यै ससंदेहं विदुर्बुधाः ॥
किमयं शशी न स दिवापि राजते कुसुमायुधो न धनुरस्य कौसुमम् ।
इति विस्मयाद् विमृशतोऽपि मे मतिस्त्वयि वीक्षिते न लभतेऽर्थनिश्चयम् ॥
101

अपरश्चोपमारूपकं नामालङ्कारः । तदुक्तम्—

उपमानेन तद्भावमुपमेयस्य साधयन् ।
यां वदत्युपमामेतदुपमारूपकं यथा ॥
समग्रगगनायाममानदण्डो रथाङ्गिनः ।
पादो जयति सिद्धस्त्रीमुखेन्दुनखदर्पणः ॥ इति ।
102

193 त्रयमप्येतन्न संगृहीतमित्याशङ्क्य संग्रहं दर्शयन्नाह—

अनन्वयससंदेहावुपमास्वेव दर्शितौ ।
उपमारूपकं चापि रूपकेष्वेव दर्शितम् ॥ ३५६ ॥

अनन्वयश्च [स]संदेहश्च द्वावप्येतौ उपमासु उपमाविकल्पेषु एव दर्शितो अन्तर्भावितौ तल्लक्षणयोगात् । तथाहि, अनन्वयस्ताव[त्—

च]न्द्रारविन्दयोः कक्ष्यामतिक्रम्य मुखं तव ।
आत्मनैवाभवत्तुल्यम्
103 इत्यात्मनोपमितत्वात्, मुखस्योपमैव । न चाभेदे कथमुपमानोपमेयभाव इति शङ्कनीयम्, अनन्वयेऽतिप्रसङ्गात् । न ह्यनन्वय इति व्यपदेशान्तरमात्रेणोपमानोपमेयभावस्तत्र निवर्तते, प्रतीतिविरोधात् । अथाभेदेऽपि भेदकल्पनया तद्भावः, इहाप्येवमस्तु । अत एवासाधारणोपमेयमात्मनैवोपमितेरन्यस्यानपेक्षणादन्यत्वप्रदर्शनव्याजेन चन्द्रारविन्दाभ्यां वदनमुपमितमिति व्याचक्षते । तथा कथमसाधारणोपमेति चिन्त्यम् । ससंदेहोऽपि—
किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् ।
मम दोलायते चित्तम्
104 इति संशयमुखेन व्यक्तं सादृश्यप्रतीतेः ससंशयोपमैव । न च मन्तव्यम्—
किमयं शशी न स दिवापि राजते
105 इति [स्तुति]परो भेदो न दर्शित इति । एवं नाम कान्तिसंपन्नं मुखं यत् पद्मं तद्व्यवसीयत इति स्तुतेरपि प्रतीतेः । प्रायश्चापरा अप्युपमाः स्तुतिगर्भाः, चन्द्रादिप्रतिविशिष्टवस्तुसादृश्योद्भावनात् । न चायं तत्र[ावश्यं] स्तुतिपरो भेदः कथ्यते, अन्यथापि प्रयोगदर्शनात् । तद् यथा—
एषा किंशुकराजी राजति दावानलो ज्वलन् किमयम् ।
विरहविनाशोत्पाते याता किमकालसन्ध्येयम् ॥ इति ॥
194
अयमालोहितच्छायो मदेन मुखचन्द्रमाः ।
सन्नद्धोदयरागस्य चन्द्रस्य प्रति गर्जति ॥
106 इति मुखस्य चन्द्रत्वेन रूपणात् । साम्यप्रतीतिगर्भात् रूपकेषु रूपकविकल्पेष्वेव दर्शितमन्तर्भावितम् । रूपकविकल्प 88b एव कश्चिदुपमारूपकाख्यः । यथा व्यतिरेकगर्मी रूपकविकल्पो व्यतिरेकरूपकमाख्यायते । तदेतत्त्रयं यथालक्षणमुपमारूपकसंगृहीतमिति न किञ्चित् [तिर]ष्क्रियते ॥

  1. काव्यालङ्कारे ३. ४५-६
  2. काव्यालङ्कारे ३. ४३-४
  3. काव्यालङ्कारे ३. ३५-६
  4. २. ३७
  5. २. २६
  6. काव्यालङ्कारे ३.४४
  7. २. ८९