197 गुणः यदनुवादेन भाविकत्वं विहितमिति तं प्रभवतः स्वरूपतश्च दर्शयन्नाह- भाव इत्यादि । कवेः प्रबन्धकर्तुरभिप्रायः प्रबन्धनिर्वाहकः प्रयत्नविशेषो विकल्पात्मकः । यदाह—काव्येषु प्रबन्धेषु साध्येषु साधनरूपेण आसिद्धि प्रथमतः प्रभृति प्रबन्धविषयां सिद्धिं समाप्तिमधिकृत्य यः स्थितः तत्त्वव्यापकः स तादृशो भावस्तावत् प्रभवस्तस्य गुणस्य । अत एवासौ प्रबन्धविषयः । प्रबन्धसाधकभावसन्ता[ना]नुवर्तित्वात्, न प्रादेशिकः । ततश्च सर्वालङ्कार[ा/?/श्रय]भूतोऽसावादिमध्यान्तेषु प्रबन्धमनुवर्तते । एवं प्रभवतस्तावदुक्तः असौ गुण इति ॥

सम्प्रति स्वरूपतस्तं विभजन्नाह—

परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम् ।
विशेषणानां व्यर्थानामक्रिया स्थानवर्णना ॥ ३६२ ॥
व्यक्तिरुक्तिक्रमवशाद्गम्भीरस्यापि वस्तुनः ।
भावायत्तमिदं सर्वमिति तद्गाविकं विदुः ॥ ३६३ ॥

वस्तुनः प्रबन्धार्थस्य समुदायस्य पर्वाण्येव यथा नगरवर्णनादयः । वस्तुनि च तानि पर्वाणीति वा । वस्तुपर्वणां काव्यार्थसंघातसन्धीनाम् अङ्गानि समुदायपर्वणामिव परस्परस्योपकारित्वमन्योन्याङ्गाङ्गिभावेन सापेक्षाणामवस्थानम् । न तु स्वतन्त्राणामयःशलाकानामिव परस्परासंघट्टनम् । तथाभावातिरेके प्रबन्धो नारभ्येत । ततश्च कथमस्य प्रबन्धविषयता गुणस्य ? प्रबन्धविषयं च यावत किञ्चिद् विशेष्यं सम्भवति तत्र यानि विशेषणानि तेषां विशेषणानामुपाधीनां व्यर्थानां ***विगतोऽर्थः प्रयोजनं प्रस्तुते क्वचिदुपयोगो येषां यतो वा तेषां प्रकृतानुपयोगिनां कार्ये विवक्षिते क्वचिदङ्गभावमभजताम् अक्रिया तादृशं कञ्चिदर्थमनपेक्ष्य विशेषणमित्येवाप्रयोगः । किं तु सार्थकानां प्रकृते क्वचिद् कथञ्चित् उपयोगिनामेव क्रिया कस्यचिद्वस्तुनो यात्रादेः [?] स्थाने समुपनतेऽवसरे प्राप्तकालं वर्णनम् । तादृशं हि वर्णनमतिशोभते । यदाह भारविः—

मुखरतावसरे हि विराजते
109

  1. किरातार्जुनीये ५. १६