तत्र स्वभावोक्तिं तावन्निदर्शयन्नाह—

नानावस्थं पदार्थानां रूपं साक्षाद् विवृण्वती ।
स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ॥ ८ ॥

पदार्थानां वस्तूनां जातिक्रियागुणद्रव्याणां रूपं स्वभावम् । किंविशिष्टम् ? नानावस्थं नाना विचित्रा न त्वेकैव काचित्, अवस्था दशा यस्य तादृशमनेकप्रकारं साक्षात् अञ्जसा अभिधानव्यापारेण न तु सामर्थ्यात् । विवृण्वती प्रकाशयन्ती सती या प्रवर्तते सा तादृश्यलंकृ42b तिः । आद्या प्रथमा अलङ्कारेष्विह स्वभावोक्तिर्नाम वेदितव्या, जातिर्नाम वा । अनेन संज्ञाद्वयेन अयमलङ्कारो व्यवह्नियते । स्वभावं पदार्थानां विचित्रं वक्तीति स्वभावोक्तिः । जातेः पदार्थस्वरूपस्य तथा तथा प्रतिपादकत्वेन तादर्थ्याज्जातिः । यथेत्युदाहरति । यथेदं तथान्यदपि तादृशं सर्वमेव द्रष्टव्यम् । न त्विदमेवेत्यर्थः । एवमुत्तरत्राप्यनुगन्तव्यम् ॥