गुणस्वभावोक्तिं निदर्शयन्नाह—

बध्नन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम् ।
नेत्रे चामीलयन्नेव प्रियास्पर्शः प्रवर्तते ॥ ११ ॥

प्रियायाः प्रणयिन्याः स्पर्शो गुणः पृथिव्यादिभूताश्रयत्वात् । स प्रवर्तते । कथम् ? अङ्गेषु प्रियस्य गात्रेषु रोमाञ्चं रोमहर्षं बध्नन् उत्पादयन् मनस्यन्तरात्मनि निर्वृतिं कुर्वन्नानन्दममन्दं सन्दधानः । नेत्रे च प्रियतमस्य दृशौ हर्षभरसञ्चरे आमीलयन् मुकुलयन्नेव । एष इत्यपि पाठः । प्रवर्ततामिति प्रकृतम् । अत्र स्पर्शाख्यस्य गुणपदार्थस्य स्वरूपं रोमाञ्चादि विचित्रं 43a निर्वृत्तमिति गुणस्वभावोक्तिरियमेवंरुपाअनुसर्तव्येति ।

अक्ष्णोराघूर्णनं वाक्यं स्खलद्रागं कपोलयोः ।
मदः करोति नारीणां भ्रुवोर्वल्गु च वल्गितम् ॥
इत्यपरमुदाहरणम् ॥