एवं स्वभावोक्तिं प्रतिपाद्य निगमयन्नाह—

जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम् ।
शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ॥ १३ ॥

जातिः क्रिया गुणो द्रव्यं च तेषां स्वभावो लक्षणं नानावस्थस्तस्याख्यानमाख्यायतेऽनेनेतीदृशमेवंजातीयं द्रष्टव्यमिति शेषः । क्वास्य विनियोग इत्याह—शास्त्रेष्वित्यादि । शास्त्रेषु आन्वीक्षिंक्यादिषु विद्यास्थानेषु । अस्यैव स्वभावाख्यानस्यालङ्कारस्य नान्यस्योपमादेः साम्राज्यं प्राधान्यम्, तस्यैव तत्र प्रायः प्रयोगात् । काव्येष्वपि सर्गबन्धादिष्वेतत् स्वभावाख्यानमीप्सितमिष्टम्, तत्रापि यथावसरं प्रयुक्तस्य शोभाकरत्वात् । अपिशब्दान्न केवलं शास्त्रेष्वित्याचष्टे ॥