राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव ।
इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ १६ ॥

ते तव वक्त्रं मुखं राजीवमिव पद्ममिव, नेत्रे चक्षुषी नीलोत्पले इवेति एवंविधा या सा वस्तूपमैव । धर्मिण एव साक्षादादानात् । तेनैवं व्यपदिश्यते । न धर्मेण तस्य साक्षादग्रहणात् । कथं तर्हि तदवसाय इत्याह—प्रतीयमानेत्यादि । प्रतीयमानस्य उपात्तस्य वस्तुनो राजीवादेस्तदव्यभिचारादर्थाद् गम्यमान एकः समानो धर्मः कान्त्यादिलक्षणो गुणो यस्याः । सेयमीदृशी वस्तूपमेति प्रकृतम् ॥